________________
३९२
दमयन्ती-कथा-चम्पू: तदनुवर्तित्वात्तासाम् । “धृतराष्ट्रः सुराज्ञि स्यात् पक्षिक्षत्रियभेदयोः" [रान्त.२७६] इति विश्वः । "शकुनि खगे करणभेदे कौरवमातुले" [३/४५२] इत्यनेकार्थः । तथा काश्चित् विघटितं-वियोजितं चक्रवाकाणां मिथुनं-दम्पतीरूपं द्वन्द्वं याभिस्ताः । अन्यत्र चक्रवाकी उड्डायिता, अन्यत्र चक्रवाक इति । का इव ? रात्रय इव ? ता अपि विघटितचक्रवाकमिथुना एव भवन्ति, रात्रौ हि श्रीरामशापेन तद्दम्पतीवियोगस्य भणनात् । तथा काश्चित् अचञ्चूनि चञ्चूनि कृतानि चञ्चूकृतानि एवंविधानि यानि कमलनालानि तैः कृत्वा शशधरकरनिकरवत् निर्मलं यज्जलं तद् आस्वादयन्त्यः-पिबन्त्यः । का इव ? चकोराङ्गना इव-चकोर्य इव । ता: किं कुर्वन्त्यः ? चञ्च्वा कृतानि-धृतानि यानि कमलनालानि तैः कृत्वा शशधरस्य करनिकर एव निर्मलजलं तदास्वादयन्त्यः, चकोर्यो हि चन्द्रकरान् पिबन्ति । तथा काश्चित् सरसानि आर्द्राणि यानि बिसाग्राणि-कमलतन्तुप्रान्तास्तानि ग्रसमानाः-भक्षयन्त्यः । का इव? करिण्य इव-हस्तिन्य इव । ताः किम्भूताः ? सरसबिसाग्राणि ग्रसमानाः । तथा काश्चित् सम्पुटितं-संयोजितं मुखं-अग्रं यस्य तादृशं यत् पाणिपल्लवयुगलं-करद्वयं तस्याग्रे यानि रन्ध्राणि-विवराणि तेभ्य उन्मुक्ताः-विक्षिप्ताः सूक्ष्माः-तन्व्यो वारिधारा याभिस्ताः । का इव? जलयन्त्रस्य पुत्रिका:-पाञ्चालिकास्ता इव । ता अपि एवम्भूता एव भवन्तीति । तथा काश्चित् प्रियं-इष्टं वारिणः-जलस्य तरणं यासां ताः प्रियवारितरणाः, का इव ? भीरुनार्य इव-भीलुकरमण्य इव । ताः किम्भूताः ? वारित:-निरुद्धो रण:-कलहो याभिस्ता वारितरणाः प्रियाणां वारितरणाः, प्रियवारितरणा:-यूयं वैरिभिः सह युद्धं मा कुरुध्वमिति ।
अवनिपतिरपि विस्मयविस्मृतनिमेषोन्मेषनयनस्ताश्चिर'मवलोक्य चिन्तयांचकार ।
अवनिपतिरपि विस्मयेन-अवलोकनाश्चर्येण विस्मृतौ-मुक्तौ निमेषोन्मेषौ-संकोच- . विकासौ नयनयोर्येन सः, विस्फारितनेत्र इत्यर्थः । एवंविधः सन् ता:-किरातकामिनीश्चिरं अवलोक्य चिन्तयाञ्चकार ।
'जातियत्र न तत्र रूपरचना नेत्रोत्सवारम्भिणी, रूपश्रीरपि यत्र तत्र सुलभः श्लाघ्यो न जन्मोदयः । इत्येकस्थसमस्तसुन्दरगुणप्रद्वेषमभ्यस्यतो, धातस्तात वृथाश्रमस्य भवतः सृष्टिक्रमो दह्यताम् ॥ ५७ ॥
१. कमलानि अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org