SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ३९१ पञ्चम उछ्वासः गृहीतपुण्डरीकाक्षाः, काश्चित्कार्तिकेयशरपङ्क्तय इव विश्लेषित - क्रौञ्चाः, काश्चित्कुरुसेना इव धृतराष्ट्रशकुनिमार्गेणानुधावमानाः, काश्चिद्रात्रय इव विघटितचक्रवाकमिथुनाः, काश्चिच्चकोराङ्गना इव चञ्चकृतदीर्धकमलनालैः शशधर करनिकरनिर्मलजलमास्वादयन्त्यः, काश्चित्करिण्य इव सरसबिसाग्राणि ग्रसमानाः, काश्चिज्जलयन्त्रपुत्रिका इव संपुटितमुखपाणिपल्लवयुगलाग्ररन्थ्रोन्मुक्तसूक्ष्मवारिधाराः, काश्चिद्भीरुनार्य ४ - इव प्रियवारितरणाः, स्तनगण्डशैलशिखरास्फालनोल्ललत्तरङ्गान्तरतरत्तरुणतामरसरससुरभिसलिलमवगाहमानाश्चिरं चिक्रीडुः । अवतीर्य च' - हदान्तः प्रविश्य ताः - कामिन्यः स्तनावेव गण्डशैलौ - पर्वतच्युतस्थूलपाषाणौ तयोः शिखराभ्यां - अग्राभ्यां यदास्फालनं - जलप्रतिघातस्तेन उल्ललन्तः-उच्छलन्तो ये तरङ्गास्तेषां अन्तरे-मध्ये तरन्ति - उन्मज्जन्ति तरुणानि - नवानि यानि तामरसानि - महोत्पलानि तेषां रसेन-मकरन्देन सुरभि: - सुगन्धि यत्तत्, एवंविधं सलिलमवगाहमानाः-विलोडयन्त्यः सत्यश्चिरं चिक्रीडुः-क्रीडन्ति स्म । क्रीडनप्रकाराने वाह - किम्भूतास्ता: ? काश्चिद् उद्गीर्णाःविक्षिप्ताः विषस्य-जलस्य गण्डूषा :- चुलुका याभिस्ता: । का इव ? पन्नगपतेः-नागराजस्य पुरन्ध्रय इव-स्त्रिय इव । किम्भूता: ? उद्गीर्णा, विषस्य - गरस्य गण्डूषा याभिस्ताः । तथा काश्चित् रक्तोत्पलं-रक्ताब्जं तस्य आकृष्टिः- आकर्षणं, तत्र व्यसनं- आसक्तिर्विद्यते यासां ताः । का इव ? राक्षसानां प्रमदा इव ? ताः किम्भूताः ? रक्तेन - रुधिरेण उत्कृष्टं यत् पलं-मांसं तस्या कृष्टौ बलाद्ग्रहणे व्यसनं विद्यते या सा ताः । तथा काश्चित् गृहीतं - अवलोकितं पुण्डरीकं-सिताम्भोजं याभ्यां एवम्भूते अक्षिणी नेत्रे यासा ताः । चक्षुषो हि ग्रहणं अवलोकनमेव, यथा श्रोत्रग्रहणमाकर्णनं । अथवा शैत्यान्नेत्रन्यस्ताब्जा: । यद्वा, गृहीतः - आत्तः पुण्डरीकाणामक्ष:बीजकोशो याभिस्ताः। " अक्षो बिभीतके कर्षे रावणौ शकटात्मनो: । रथस्यावयवे तुच्छे व्यवहारवराटयोः । पाशके य" [२/३-४] इति अनेकार्थतिलकः । का इव ? गोपाङ्गना इव-गोप्य इव । ताः किम्भूता: ? गृहीतः पुण्डरीकाक्ष:- विष्णुर्याभिस्ताः। तथा काश्चित् विश्लेषिताः-वियोजिताः क्रौञ्चा:- पक्षिविशेषा याभिस्ताः । का इव ? कार्तिकेयस्यकुमारस्य शरपंक्तय इव । ताः किम्भूताः ? विश्लेषितः - विभिन्नः क्रौञ्चाख्यो गिरिर्घाभिस्ताः । क्रौञ्च इति “प्रज्ञादित्वादण्" [ प्रज्ञादिभ्यश्च पा. सू. ५/४/३८ ] । “क्रोञ्चोद्वीपे खगे गिरौ” इत्यनेकार्थः [२ / ५९ ] । तथा काश्चित् धृतराष्ट्रशकुनयो: हंसपक्षिणस्तेषां मार्गेणवर्त्मना अनुपश्चाद् धावमाना:- गच्छन्त्यः, का इव ? कुरुसेना इव ? ताः किम्भूता: ? धृतराष्ट्रः-दुर्योधनपिता शकुनि:- कौरवमातुलस्तयोर्मार्गेण पाण्डवचमूहननलक्षणेन अनुधावमाना For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy