SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ३९० अनन्तरमक्रूरजलचरमवेगवहत्सलिलमुत्फुल्लविविधविकसिताम्बुज जातिजीवितजीवंजीवकमुत्कृ जितकुररमारसितसारसमुन्मदहासिहंसावतंसमुरःप्रमाणाच्छोदकमतिरमणीयं हृदमवातरन् । दमयन्ती - कथा - चम्पूः तत:- अनन्तरं ताः-किरातकामिन्यः सूक्ष्मा:- तनवो मुक्ताफलवद्धवलाः-श्वेताः वालुका' यत्र एवम्विधे पुलिनपृष्ठे सैकतप्रदेशे लब्धः परभागः २ - गुणोत्कर्ष: शोभातिशयोयाभिस्ता एवम्विधाः सत्यं, एवम्विधं तीरविहारस्य - तटविचरणस्य सुखं अनुभूय, अनन्तरंपश्चात् एवम्विधं अतिरमणीयं- अतिशयेन रम्यं हृदं - जलाधारविशेषं अवातरन् - प्राविशन् । किम्भूतं तीरविहारसुखम् ? स्वैरं स्वैरं - स्वेच्छया स्वेच्छया अनुच्चचरणाभ्यां - भूसन्निहितपादाभ्यां यश्चलनक्रम:-गमनपरिपाटी तेन फ्रेंकारिते - शिञ्जिते ये नूपुरे - तुलाकोटी तयो रवेण - स्वरेण आकृष्टं - स्वसमीपे आनीतं कलहंसकुलं यत्र तत्, नूपुरस्वरं श्रुत्वा राजहंसास्तासां समीपमागताः सन्तीत्यर्थः । तथा अनाकुलानि - अन्तरितानि कलानि - मधुराणि यानि गीतानि - गानानि तेषां ये तरङ्गाः - लहर्यः परम्परा इत्यर्थः क्रमेण लीलया समुल्लसनात् तैरासन्नाःनिकटा रङ्गिता:- आगताः कुरङ्गा यत्र तत् ताभिस्तथा कलङ्गीयते, यथा मृगा अपि तासां समीपे सञ्चरन्तीति । रगुत् गुलिगु गतौ के रंगितः । तथा अनङ्गभावेन - स्मरचेष्टया भूयिष्ठं - बहुलं, तत्र स्मरचेष्टा बह्वीस्ताभिर्दर्श्यत इत्यर्थ: । “ भावोभिप्रायवस्तुनोः । स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टयोन्योर्बुधे जन्तौ शृङ्गारादेश्च कारणे" इत्यनेकार्थः [ २/ ५४५-५४६ ] । किम्भूतं हदम् ? अक्रूरा:- अनुग्राः जलचरा:- मत्स्या, यस्मिन् स तं, अनेनाभिगम्यत्वं हदस्योक्तम् । तथा अवेगं - वेगरहितं वहत्सलिलं यत्र स तम् । तथा उत्फुला विविधा:-अनेकप्रकारा, विकसिता या अम्बुजजातयः-श्वेतारुणादिपद्मप्रकारास्ता-भिर्जीवितावर्तिता उपकृता जीवंजीवा:- पक्षिविशेषा येन स तम् । “शेषाद्वा कः " [शेषाद्विभाषा पा. सू. ५/ ४/१५४] । यद्वा, अम्बुजजातिरेव जीवितं येषामतिप्रियत्वात्, एवंविधा जीवंजीवा यत्र तम् । अत्र उत्फुल्लविकसितशब्दौ एकार्थौ विकासस्य आधिक्यं द्योतयतः । तथा उत्कूजिता: - शब्दिताः कुरा यत्र स तम् । तथा आरसिताः शब्दं कुर्वाणाः सारसा यत्र स तम् । तथा उन्मदा:-दृप्तास्तथा हासिन:-हसनशीलाः एवंविधाः हंसा एव अवतंसः - शेखरो यस्य स तम्, तन्मण्डिततीरत्वात् । तथा उरः प्रमाणं वक्षोदघ्नं अच्छं उदकं यत्र स तं, अगाधे हि पयसि न जलक्रीडा । , अवतीर्य च ताः काश्चित्पन्नगपतिपुरन्ध्रय इवोद्गीर्णविषगण्डूषाः, काश्चिद्राक्षसप्रमदा इव रक्तोत्पलाकृष्टिव्यसनिन्यः, काश्चिद्गोपाङ्गना इव १. श्वेता : वालुका अनू । २. परिभागः अनू. । ३. स्वनं अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy