SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ पञ्चम उवासः ३८९ अत्र कर्णश्रवणशिरःशब्दाः सन्निधानप्रतीत्यर्थमिति काव्यप्रकाशोक्तः । समाधिविधिरत्रावसेयः । उत्प्रेक्ष्यते, हरस्य-शम्भोः शरानलज्वालाभि:-बाणहुताशनार्चिभिराकुलितंव्यग्रीकृतं-शिरो यासां ताः, एवंविधां धूमेन-अग्निलिङ्गेन-ध्यामला-कृष्णवर्णा सलिलमनुलक्षीकृत्य सरन्त्यः-आगच्छन्त्यः त्रिपुरस्य-दैत्यविशेषस्य पुरन्ध्रय इव -कुटुम्बिन्य इव । लोहिताशोककुसुमानां हरशरज्वालास्त्रीणां च श्यामत्वे धूमध्यामलत्वं उपमेति । पुरन्ध्रय इति पुरं धत्त इति पुरन्ध्रिः, "पृषोदरादित्वात् ध्यां३" [पृषोदरादीनि यथोपदिष्टम् पा. सू. ६/३/१०९] पुरन्ध्री, तथा काश्चित् तरुण्यः लालिताः-लघुवयस्तः पालिताः ये लीलामृगाः केलिकुरङ्गास्तैरनुगम्यमानाःअनुस्रियमाणाः वर्तन्ते पुरतस्ता आगच्छन्ति पश्चाल्लीलामृगा इति । उत्प्रेक्ष्यते, शरीरवत्यःदेहधारिण्यो मूर्तास्तीर्थावगाहने-तीर्थमज्जने अनुरागः-प्रेम विद्यते यासां ताः, एवम्विधा अञ्जनशैलस्थलस्य-सौवीरगिरिस्थल्या अधिदेवता इव-अधिष्ठातृदेव्य इव, ता अपि अनुगतमृगाः कृष्णाभाश्च भवन्तीति । तथा काश्चित् तरुण्यः जरया-जर्जरा जीर्णा ये शबरकञ्चुकिनःशबरसौविदल्लास्तेषां करावलम्बलीलया-करावष्टम्भविलासेन गच्छन्तीत्येवंशीलास्तथा कृष्णाञ्जनिका तापिच्छलतिका तस्याः कुसुमवन्नीला कान्तिर्यासां एवम्विधा वर्तन्ते । उत्प्रेक्ष्यते, इन्द्रजालिकै:असवस्तुदर्शिभिर्मा यिभिः सञ्चार्यमाणा:- चाल्यमानाः स्फुरन्यः-दीप्यमाना या इन्द्रनीलाशिलापुत्रिका:-नीलमणिशिलापाञ्चालिकास्ता इव । कञ्चुकिनां इन्द्रजालिकाः स्त्रीणां च इन्द्रनीलशिलापुत्रिका उपमानम् । तथा काश्चित्तरुण्यः चिपिटा पिच्चिततता नासिका यासां ताः, “चिपिटं पुनः । पृथुके पिच्चिततते' इत्यनेकार्थः । [३/१५८] “पिच्चितं-कुट्टितं सन्ततं-विस्तीर्णं पिच्चितततं, यथा केचिच्चिपिट नर्कुटा" [ ] इति तद्वृत्तिः । तथा कुन्दवत्-पुष्पविशेषवत् कान्ता- विशदा दन्तपंक्तिर्यासां ताः, तथा मयूरपिच्छगुच्छेनमयूरसम्बन्धिपत्रसमूहेन अवनद्धः-बद्धः अतएव कर्बुर:-शबलवर्णः कवरीकलापःकेशविन्याससमूहो यासां ताः, तथा चलद्भिवलयैः-कङ्कणैर्मुखरौ-वाचालौ यौ करतलौ-पाणितलौ ताभ्यामुत्ताल:-त्वरितः श्रेष्ठो वा यस्तालिकारम्भः-तालिकादानं तेन रमणीया-रम्या, तथा रसिकारसवती, एवम्विधा या रासकक्रीडा लोकप्रसिद्धा तया निर्भरा:-अतिशायिन्यः । “उत्तालस्त्वरिते कपौ । श्रेष्ठोत्कटकरालेषु" [३/६६३-६४] इत्यनेकार्थः । रासः क्रीडानुगे द्रुहां, इत्यनेकार्थः [२/६०२] । तथा कादम्बरी-मदिरा मधु:-क्षौद्रं तयोः पानेन यो मदः-मत्तता तेन चूर्णितेघूर्णायमाने प्रचलायिते दृशौ यासां ताः । ___ ततश्च ताः सूक्ष्ममुक्ताफलधवलवालुकापुलिनपृष्ठे लब्धपरभागाः स्वैरं स्वैरमनुच्चचरणचलनक्रम' केंकारितनूपुररवाकृष्टकलहंसकुलमनाकुलकलगीततरङ्गासन्नरङ्गितकुरङ्गमनङ्गभावभूयिष्ठमनुभूय तीरविहारसुखम्, १. तरुण्यः नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy