SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ३८८ इति । उत्प्रेक्ष्यते, ता: का इव ? कृतः क्रीडया शरीरपरिग्रहः- तनुस्वीकारो याभिस्ता मूर्ता: स्फुरन् - दीप्यमानो नक्षत्राणां वलय:- मण्डलं यासु एवंविधाः कृष्णपक्षस्य- रात्रय इवनिशा इव । मुक्तानां नक्षत्राणि स्त्रीणां च रात्र्य उपमानम् । तथा काश्चित् उभययोः श्रवणयोरासक्ते-लग्ने ये दन्तिदन्तपत्रे - करिदन्तघटितकर्णाभरणे तयोः प्रभया - श्वेतकान्त्या धवलितं - पाण्डुरितं मुखमण्डलं यासां ताः, एवंविधा वर्तन्ते । उत्प्रेक्ष्यते, नर्मदया आमन्त्रिताः-आहूताः स्फुरत्-विशदीभवत् यत् सुरसरित्सलिलं गङ्गाजलं तेन सम्वलितामिश्रिता या: कालिन्दीजलदेवता - यमुनास्ता इव । दन्तपत्राणां सुरसरित् स्त्रीणां च कालिन्द्युपमानम् । तथा काश्चित्तरुण्य परिधानीकृताः - अधो निवसनीकृता रक्ताः पल्लवाःकिसलयानि याभिस्ता रत्त. पल्लवाच्छादितकटीभागाः, एवंविधा वर्तन्ते । उत्प्रेक्ष्यते, विन्ध्यस्कन्धस्य-विन्ध्याचलमध्यस्य अनुबन्ध: - सम्बन्धो विद्यते यासां ता विन्ध्यस्कन्धानुबन्धिन्यः, विन्ध्यस्कन्धलग्ना इत्यर्थः । स्फुरन्ती - दीप्यमाना तडिल्लेखेव - विद्युदेव मेखला - कटिभूषणं यासां एवंविधाश्चलन्त्यो या अम्बुवाहपंक्तयस्ता इव । रक्तपल्लवानां तडिल्लतास्त्रीणां चाम्बुवाहपंक्तिंरुपमानम् । तथा काश्चित् तरुण्यः मातङ्गमदेन-करिदानेन यन्मण्डनं-मुखादेरलङ्करणं तेन मिलन्तः - पुञ्जीभवन्तो ये मधुकरास्तैः करालिताःव्यग्रीकृताः खेदं प्रापिता वर्तन्ते । उत्प्रेक्ष्यते, अन्यजलाश्रयेभ्यः - अपरजलाशयेभ्यो महानदी - नर्मदामवतरन्त्य:प:-आगच्छन्त्यः सकला या नीलोत्पलवनलक्ष्म्यः -कुवलयखण्डशोभास्ता इव। स्त्रीणां कुवलयखण्डलक्ष्म्य उपमानम् । तथा काश्चित् तरुण्यः लोहिता ये अशोकस्य - कङ्केल्लेः कुसुमस्तबका:-गुच्छपुच्छास्तैः कृत्वः कर्णयोः अवतंसः - कर्णपूर: उत्तंसश्च-शिरसि शेखरो याभिस्ता: लोहिताशोककुसुमस्तबककृतकर्णावतंसोत्तंसाः, एवंविधा सन्ति । "आपीड शेखरोत्तंसावतंसा शिरसि स्त्रजि, उत्तरो कर्णपूरेऽपि " [३/३१८ ] इति हैमः कोषः । अत्रावतं सोत्तंसयोरेकार्थत्वप्रतीतिनिवृत्त्यर्थं अवतंसपदस्य सविशेषणत्वं । यद्वा, कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितेः १ संनिधानादिबोधार्थं अवतंसादीनि कर्णाद्याभरणान्येव उच्यते । तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपत्तये । यथा अस्याः कर्णावतंसेन जितं सर्व विभूषणम् । "गजे' वराहदंष्ट्रायां मण्डूके सर्पमस्तके । वंशे शङ्खे घने शुक्तौ मुक्तानामष्टयोनयः ॥ " [ ] १ °निर्मिति: अनू. । Jain Education International तथैव शोभतेऽत्यन्तमस्यां श्रवणकुण्डलं । अपूर्वमधुरामोदप्रमोदितदिशस्ततः । आययुर्भृङ्गमुखराः शिरः शेखरशालिनः । दमयन्ती - कथा - चम्पूः For Personal & Private Use Only [ काव्यप्रकाश- ७/२८७ ] [ काव्यप्रकाश- ७/२८८ ] www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy