________________
३८७
पञ्चम उच्छ्वासः नर्मदयामन्त्रिताः१, काश्चित्परिधानीकृतरक्तपल्लवस्फुरत्त डिल्लेखामेखलाश्शलदम्बुवाहपङक्तय इव विन्ध्यस्कन्धानुबन्धिन्यः, काश्चिन्मातङ्गमदमण्ड:नमिलन्मधुकरकरालिताः सकलनीलोत्पलवनलक्ष्म्य इवान्यजलाशयेभ्यो महानदीमवतरन्त्यः, काश्चिल्लोहिताशोककुसुम स्तबककृतकर्णावतंसोत्तंसास्त्रिपुरपुरन्ध्रय इव हरशरानलज्वालाकुलितशिरसो धूमध्यामला:६ सलिलमनुसन्त्यः, काश्चिल्ललितलीलामृगैरनुगम्यमानाः शरीरवत्योऽञ्जनशैलस्थलाधिदेवता इव तीर्थावगाहनानुरागिण्यः, काश्चिज्जराजर्जरशबरकञ्चुकिकरावलम्बलीलागामिन्यः स्फुरदिन्द्रनीलशिलापुत्रिका इवेन्द्र जालिकैः संचार्यमाणाः कृष्णाञ्जनिकाकु सुमकान्तयः,
काश्चिच्चिपिटनासाः कुन्दकान्तदन्तपङक्तयो मायूर पिच्छगुच्छावनद्धकर्बुरकबरीकलापाश्चलद्वलयमुखरकरतलोत्तालतालिकारम्भरमणीयरसिकरासकक्रीडानिर्भराः 'कादम्बरीमधुपानमद१०-घूर्णितदृशो दृष्टिपथभवतेरुरपराह्नमज्जनागतास्तरुणकिरातकामिन्यः ।। ___तत्र च-पुलिनप्रान्ते चटुलं-चञ्चलं यच्चञ्चरीककुलं- मधुकरवृन्दं तेन आकुलिताःव्याकुलीकृताः सन्तापिता विविधाः-अनेकप्रकारा या वीरुधः-लतास्तासां तलेषु-छायासु विचरतः-विहरतो अस्य-नलस्य एवंविधा अपराह्नमज्जनाय-सन्ध्याकालीनस्नानाय आगतास्तरुणाः-नवयौवनाः याः किरातकामिन्यः-भिल्लस्त्रियस्ता दृष्टिपथं अवतेरु:अवतीर्णः, दृष्टा इत्यर्थः । किम्भूतास्तरुणकिरातकामिन्यः ? नागमदेन-हस्तिदानाम्बुना हारिण्य:-मनोहरास्तेन अलङ्कृतत्वात् । का इव ? रसातलात्-पातालात् निर्गताः पन्नगाङ्गना इव । ता: किम्भूता: ? नागानां-वासुकिप्रभृतीनां मदं-गर्वं हरन्ति-मुष्णन्तीत्येवंशीला नागमदहारिण्यः तान् स्ववशे नयन्ति' इत्यर्थः । तथा तमालकन्दलीवत्-तापिच्छप्ररोहवत् कोमला-मृद्वी अङ्गयष्टिः-देहो यासां ताः, कृष्णदेहच्छवय इत्यर्थः । यष्टिशब्दस्तनुलतादिवच्छोभावाची । तथा श्रोणीभारेण-पृथुलनितम्बगौरवेण अलसं-मन्थरं गमनं यासां ताः । तथा त्रिवल्या:-तिसृभिरुदरलेखाभिस्तरङ्गिता-जाततरङ्गाकारा तन्वी-सूक्ष्मा मुष्टिग्राह्या मध्यलतिका अवलग्नं यासां ताः त्रिवलीविभूषितमध्या इत्यर्थः । तथा तासां मध्ये काश्चित्तरुण्यः कण्ठकन्दल्या लम्बिता-लम्बायमानी कृता मातङ्गमौक्तिकलता-गजसम्बन्धिमुक्तास्रक् याभिस्तां एवंविधा वर्तन्ते । मौक्तिकानां हि अष्टौ योनयस्तथा चोक्तम्
१. नयन्त्य अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org