________________
दमयन्ती - कथा - चम्पू:
खर्वितदूर्वाङ्कुरेणापसरत्पयःपूरतरङ्गितवालुकेन पुलिनप्रान्तेन प्राचीं
३८६
दिशमयासीत् ।
अनन्तरं-मध्याह्नानुष्ठानकरणात् पश्चात् केषुचित् मुहूर्तेषु - कालविशेषेषु अतिक्रान्तेषु सत्सु मनाक्-स्तोकं मार्तण्डमण्डले - रविबिम्बे गगनमध्यतलाद् विलम्बमाने सति-अचलति सति, मध्याह्ने घटिकाद्वयं रविर्निश्चली भवतीत्यागमः । तेन पुरन्दरस्य - शक्रस्य आदेश एव भ्रमःकुन्दाख्ययन्त्रं तेन भ्रान्तं अनवस्थितमात्मनो मनः क्वापि - कस्मिश्चिदपि प्रदेशे एकान्ते - विजने कमनीया:-रम्या ये नर्मदाप्रदेशास्तेषां यत्प्रदर्शनं - अवलोकनं तस्य विनोदेन - कुतूहलेन स्वस्थीकर्तुं - स्वस्थं विधातुं इच्छन्-वाञ्छन् इच्छाया:-आत्मन: अभिलाषस्य अनुकूलाः-तदनुवर्तिनः स्वाभिलाषमनुप्रवर्तमाना इत्यर्थः । एवंविधाः कतिपये - कियन्तः आप्ताः - यथार्थवादिनो ये परिजनास्तैः परिवृत:-परिवारितः श्रुतशीलस्कन्धस्य यो अवष्टम्भ:-आलम्बनं तेन विहर्तुं शीलं यस्यासौ श्रुतशीलस्कन्धावष्टम्भविहारी-मन्त्रिस्कन्धमवष्टभ्य नलः दूरमिव इवशब्दोऽत्र वाक्यालङ्कारार्थः । दूरदेशस्थितमेव शिबिरसन्निवेशं सेनास्थितिप्रदेशं विहाय - परित्यज्य पुलिनप्रान्तेन-तटपर्यन्तपथेन प्रार्ची- पूर्वां दिशमयासीत् - जगाम । भ्रान्तं मनः किमिव ? चण्डवात्ययाप्रचण्डवातसमूहेन आहतं-कम्पितं यत् शुष्कपत्रं तदिव । तथा दण्डप्रान्तेन-दण्डाग्रेण प्रचलितंप्रेरितं यत् कुलालचक्रं तदिव । यथा तत्भ्रान्तं भवति तथेदमपि । पुरन्दरादेशभ्रमेति "भ्रमस्तु स्याभ्रमणे वारिनिर्गमे । भ्रान्तौ कुन्दाख्य यन्त्रे च" [२/३३३-३३४] इत्यनेकार्थः । किम्भूतेन पुलिनप्रान्तेन ? इतस्ततः - सर्वतः तरुणा:- नवा ये तमालमण्डपास्तेषु जलदभ्रमान्मण्डलिताःएकत्रमिलिता ये मयूरास्तैर्हारिणः- मनोज्ञेन, तथा चलन्तो ये चकोराश्च चक्रवाकाश्च तेषां यच्चक्रवालंवृन्दं तेन वलयितेन वेष्टितेन, तथा स्नानाय आगता ये तापसास्तेषां पदपंक्तिभिः-पादन्यासश्रेणिभिः खर्विताः-कुब्जीकृता दूवाङ्किरा यस्मिन् स तेन, तथा अपसरन्-पश्चान्निवर्तमानो यःपयःपूरःजलप्रवाहस्तेन तरङ्गिता-जाततरङ्गाकारा वालुका यस्य स तेन । यस्या उपरि जलप्रवाहो व्यूढो भवति सा वालुका तरङ्गाकारा दृश्यते । तरङ्गितेति "तारकादित्वादितच्” [पा. सू. प./२/३६] ।
तत्र च चटुलचञ्चरीककुलाकुलितविविधवीरुधां तलेषु विचरतोऽस्य रसातलनिर्गता:५ पन्नगाङ्गना इव नागमदहारिण्यस्तमालकन्दलीकोमलाङ्गयष्टयः श्रोणीभारालसगमनास्त्रिवलीतरङ्गिततनुमध्यलतिकाः, काश्चित्कण्ठकन्दलीलम्बित 'मातङ्गमौक्तिकलताः स्फुरन्नक्षत्रवलया: कृष्णपक्षरात्रय इव कृतक्रीडाशरीरपरिग्रहाः, काश्चिदुभयश्रवणासक्त' दन्तिदन्तपत्त्रप्रभाधवलितमुखमण्डलाः सुरसरित्सलिलसंवलित' कालिन्दीजलदेवता इव
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org