SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ३८५ पञ्चम उच्छ्वासः भावार्थः । मध्याह्नशङ्खध्वनिर्नरपते:- नलस्य श्रुतिं - कर्णं शिश्राय- श्रुत इत्यर्थः । किभूतो मध्याह्नशङ्खध्वनिः ? वाञ्छितार्थस्य- दमयन्तीप्राप्तिलक्षणस्य सिद्धेः - निष्पत्तेर्मङ्गलोद्गार इवमङ्गलवाक्योच्चार इव, यथा मङ्गलवाक्योच्चारे वाञ्छितार्थसिद्धिस्तथाऽनेनापि । तथा अन्तरायाणां-विघ्नानां तर्जनाय हुङ्कार इव - निषेधमन्त्राक्षरमिव यथा हे अन्तराया: ! यूयं दूरे यातेति । तथा उत्साहस्य - उद्यमस्य स्मृते:- स्मरणस्य ओङ्कार इव - प्रणवाक्षरमिव, अनेन श्रुतेन पुनरप्युत्साहः सञ्जात इत्यर्थः, यद्वा उत्साह एव स्मृतिशास्त्रविशेषस्तस्य ओंकार इव । तथा पुनर्नवीकृतं-पुनरुत्पादितं अनुराग एव - प्रेमबन्ध एव स्तम्भ :- स्थूणस्तेन' उत्तम्भनं - ऊर्ध्वं नयनं यस्य, एवंविधस्य हृदयप्रसाद एव - चेतः प्रसन्नतैव प्रासादस्तस्य पुण्यध्वनिरिव - पुण्यं च तत् अहश्च पुण्याहं “पुण्यसुदिनाभ्यामह्नः " [पा. वा, तत्पु.] ★ सुदिनशब्दः शोभावाची यथा सुदिना सुभास्विति, क्लीबतेष्टा, तस्य ध्वनिरिव । अद्य पुण्यदिनं विद्यते हृदयप्रसादप्रासाद उध्रियतामिति शङ्खध्वनिना निवेद्यत इति भाव: । यद्वा, 'पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां' इत्यादिरूपो मन्त्रध्वनिः - पुण्याहध्वनिः । किं कुर्वन् शङ्खध्वनि: ? उत्प्रेक्ष्यते, श्रुतशीलेन श्रावितमिममेव आर्यायुगलोक्तमेवार्थं 'साहसं कुरु' इत्येवंरूपं समर्थ्ययन्ति- द्रढयन्निव । यथा कस्यचिदुक्तमर्थं अन्यस्तथैव ब्रुवन् समर्थयति तथा अयमपि समर्थयतीति । अनेनापि बोध्यते यथा साहसमेव विधेहीत्यर्थः । राजा तु तमाकर्ण्य विसर्जितपरिजनस्तत्रैव पुलिनमध्ये मध्याह्नसमयसमुचितव्यापारमकरोत् । राजा तु-नलस्तं- शङ्खध्वनिमाकर्ण्य - श्रुत्वा विसर्जितः - प्रेषितः परिजनो येन स एवंविधः सन् तत्रैव पुलिनमध्ये जलोज्झिततटमध्ये मध्याह्नसमयस्य समुचितो यो व्यापार:अनुष्ठानं तं अकरोत् । अनन्तरमतिक्रान्तेषु केषुचिन्मुहूर्तेषु गगनमध्यतलाद्विलम्बमाने मनाङमार्तण्डमण्डले चण्डवात्याहतशुष्कपत्त्रमिव दण्डप्रान्तप्रचलितकुलालचक्रमिव तेन पुरंदरादेशभ्रमेण भ्रान्तमात्मनो मनः क्वाप्येकान्तकमनीयनर्मदाप्र देशप्रदर्शन' विनोदेन स्वस्थीकर्तुमिच्छन्निच्छानुकूलकतिपयाप्तपरिजन परिवृतः श्रुतशीलस्कन्धावष्टम्भविहारी ३ विहाय दूरमिव शिबिरसंनिवेशम्, इतस्ततस्तरुणतमालमण्डपमण्डलितमयूरहारिणा चलच्चकोरचक्रवाकचक्रवालवलयितेन स्नानागततापसपदपङ्क्ति १. स्थूणा अनू. । ★★ चिह्नान्तर्गतपाठो नास्ति अनू. । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy