________________
दमयन्ती - कथा - चम्पूः
विख्यातम् । तथा अर्थेन - तात्पर्येण सारं प्रधानं इदं आर्याया:- छन्दोविशेषस्य युगलं देवः किमुकिं न स्मरति ? तदेव आर्यायुगलमाह
३८४
क्वचिदपि कार्यारम्भेऽकल्पः कल्याणभाजनं भवति । न तु पुनरधिकविषादान्मन्दीकृतपौरुषः पुरुषः ॥ ५५ ॥ अपहस्तियान्तरायानर्थानुररीकृतान्प्रसाधयतः ।
विधिरपि बिभेति तस्मान्निरतिशयं साहसं यस्य ॥ ५६ ॥
क्वचिदपीति । क्वचिदपि - कस्मिंश्चिदपि कार्यारम्भे-कार्यप्रवृतौ अकल्पःअनिर्विण्णः पुमान् कल्याणभाजनं भवति । यो हि कार्यं कुर्वन् न निर्विद्यते स श्रेयःपात्रं भवति । तु पुनरिति शब्दो सम्भूयवाचकत्वात् पुनरर्थमेव द्योतयतः । पुनः - अधिकविषादात् मन्दीकृतं-अल्पीकृतं पौरुषं - विक्रमो येन, एवंविधः पुरुषः अल्पोद्यमः कल्याणभाजनं न । पुरुषाणां कर्म पौरुषं “युवादित्वादण्" [हायनान्तयुवादिभ्योऽण् पा. सू. ५/१/१३०]
॥५५॥
अपेति ? यस्य पुंसो निरतिशयं - सर्वाधिकं साहसं धाष्टर्यं तस्मात् पुंसो विधिरपिवेधा अपि बिभेति । किम्भूतात् तस्मात् ? अपहस्तिता - दूरीकृता अन्तरायाः - विघ्ना येषु तान् तथाविधान् उररीकृतान् अङ्गीकृतान् अर्थात् - कार्याणि प्रसाधयतः -निष्पादयतः । एतावता धैर्यं बिभृहि, येन भवतोप्यर्थसिद्धिर्भवेदिति द्योतितम् । “साहसं तु दमे दुष्करकर्मणि अविमृशाकृतौ धायें " [३/८०१-८०२] इत्यनेकार्थः ॥ ५६ ॥
एवमनेकधा प्रस्तुतपुराणपुरुषाख्यानप्रपञ्चक्रमेणातिक्रान्ते भूम्नि दिवसे मङ्गलोद्गार इव वाञ्छितार्थसिद्धेः, तर्जनहुंकार इवान्तरायाणाम्, ओंकार इवोत्साहस्मृतेः, पुण्याहध्वनि ेरिव हृदयप्रसादप्रासादस्य, पुनर्नवीकृतानुरागस्तम्भोत्तम्भनस्य तस्य नरपतेः शिश्राय श्रुतिं श्रुतशीलेन श्रावितमिममेवार्थं समर्थयन्निव मध्याह्नशङ्खध्वनिः ५ ।
एवं - अमुना प्रकारेण अनेकधा प्रस्तुतानि - प्रकृतानि यानि पुराणपुरुषाख्यानानिचिरन्तनपुरुषकथानकानि तेषां यः प्रपञ्चः - विस्तारस्तस्य क्रमेण - कथनपरिपाट्या भूम्निभावप्रत्यया विवक्षया बहौ - बहुले दिवसे अतिक्रान्ते - व्यतीते सति यद्वा दिवस इति दिवसविषये भूम्नि - बहुत्वे अतिक्रान्ते सति, स्तोके दिने अवशिष्टे सतीत्यर्थः । बहोर्भावो भूमा, "बहोर्लोपो भू च बहोः [पा. सू. ६/४/१५८] इति बहोर्भूरादेश: इमन् प्रत्ययश्च
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org