SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः सरन्त्यो यो अप्सरसस्तासां मुखमण्डलैः क्षणमिव क्षणमेकं यावत् विहिता विकचनलिनखण्डस्य –सविकासपद्मवनस्य शोभा यस्मिन् स तस्मात्, मन्ये आसां मुखमण्डलानि न भवन्ति किन्तु अमूनि सविकासानि कमलानीति । तथा अनेकाश्चर्याणां कुक्षिरिव - उदरमिव य: स: तथा तस्मात्, यथा कुक्षेः सन्तानोपत्तिस्तथाऽस्मादनेकान्यद्भुतानि उद्भूतानि । इति । ३८३ यस्याः-लक्ष्म्याः पीयूषं - अमृतं जुषन्ते - सेवन्त इति पीयूषजुषः - देवाः सर्वाङ्गाणांसर्वशरीरावयवानां यल्लावण्यं - नयनलेह्यं सौन्दर्यं तदेव मधुः- मद्यं तत् विकचानिसविकासानि यानि लोचनानि तान्येव चषकाणि - मद्यपात्राणि तैरापीय - पीत्वा, तल्लावण्यं दृष्ट्वेत्यर्थः । चषकैरेव मधु पीयत इति छायार्थः । मदनमदेन - कामोन्मत्ततया परवशा:परतन्त्राः सन्तः परस्परमेव - अन्योन्यमेव ईर्ष्यन्तः - एको ब्रूते अहमेनां परिणेष्यामि, अन्यो ब्रूते अहं, इत्येवं क्रुध्यन्तः चक्रपाणिना- विष्णुना समं सङ्गरं - रणं चक्रुः- कुर्वन्ति स्म । अथ - अनन्तरं सा - लक्ष्मीः सर्वानपि अन्तरान्तरा - अन्तरन्तः आपततः - परिणयनार्थमागच्छतस्तान्-देवान् उल्लंध्य अतिक्रम्य मन्दरगिरिशिखरस्य यच्छातकुम्भं स्वर्णं तस्य निकषोपलौ इव-कषपट्टपाषाणौ इव आचरन्त्यै' बाहू - भुजौ यस्य स तस्य । कृष्णाभत्वात् भुजयोर्निकषोपलोपमानम् । मथनावसरे मेरो : बाहुभ्यां संघर्षश्च भवेदेव भ वैकुण्ठस्य- हरेः कण्ठे क्षेपीयः - अतिशयेन क्षिप्रं - शीघ्रं स्वयम्वरस्य - स्वत एव वरणस्य या कुसुममाला तां चिक्षेप - यत् । एवमिति । यथा श्रीरन्यान् देवान् परित्यज्य विष्णुमेव उपायत - परिणीतवती तथा साऽपि चम्पककलिकाकलापवद् गौरं पीतं अङ्गं यस्याः सा तथाविधा दमयन्ती त्वयि रागिणी -अनुरक्ता सती देवान् वञ्चयिष्यति । यतः - यस्मात् कारणात् अनया पूर्वमपि आत्ममुखमण्डलस्य या: श्री:- शोभा तया शशी देवो वञ्चितः - तिरस्कृतः । तथा अनया सौभाग्येन-सौन्दर्येण मदनः - स्मरो देवस्तिरस्कृतः । असकृत् - पुन: पुन: प्रनृत्ताया:-नर्तितुं प्रवृत्तायाश्च नर्त्तक्या: किं अवगुण्ठनेन - कौसुम्भवस्त्रेण रे नीरंग्या घुंघटकरणेन ? ४ तथा तया पूर्वमेव देवा वञ्चितास्तह्येषां वञ्चने का तस्यास्त्रपेति भावः । अथवा वामभ्रुवां रमणीनां विधेरिव - ब्रह्मण इव अचिन्तनीयानि - कलयितुमशक्यानि चरितानि - वृत्तानि भवन्ति । किमु न स्मरति देवो दिवि विश्रुतमर्थसारं स्वर्लोकादवतीर्य पुरा गीतं गन्धर्वगायनैर्गीतगोष्ठीस्थितस्याग्रे युगलमिदमार्याया देवस्य ३ । किम्विति । पुरा- पूर्वं गन्धर्वगायनै:-देवगायनैः स्वर्लोकात् स्वर्गादवतीर्य दिवि - आकाशे गीतं-रागवत् ध्वनिनोच्चरितं गीतगोष्ठ्यां - गानपर्षदि स्थितस्य देवस्य नृपस्य अग्रे विश्रुतं - १. आचरन्तौ अनू. । २. परिणीतवती नास्ति अनू. । ३. कौसुम्भवस्त्रेण नास्ति अनू. । ४. घुंघुटकरणेन अनू. । ५. अनया अनू. । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy