SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ३८२ दमयन्ती-कथा-चम्पू: किं च' देवेन न श्रुतम्, अमृतमथनावसरे सुरासुरकरपरिवय॑मानमन्दरमन्थाननिर्घोषबधिरित समस्तरोदःकंदरादिवापि दूरोच्छलितदुग्धतुषारासारतारकितनभसः, समुत्पन्नानेककौस्तुभादिवस्तुविस्तारादुद्गच्छदप्सरोमुखमण्डलैः क्षणमिव विहितविकचनलिनारेखण्डशोभाद्, अनेकाश्चर्यकुक्षेः क्षीरसागरादजनि जनितजगद्विस्मया स्मरजननी हस्तस्थिततरुणारविन्दा देवी देदीप्यमानपुण्यलक्ष्मा लक्ष्मीः । यस्याः सर्वाङ्गलावण्यमधुविकचलोचनचषकैरापीय पीयूषजुषो मदन मदपरवशा: परस्परमेवेर्ण्यन्तश्चक्रुश्चक्रपाणिना समं सङ्गरम् । अथ६ सा सर्वानप्यन्तरान्तरापततस्तानुल्लङ्घय मन्दरगिरिशिखरशातकुम्भनिकषोपलायित बाहोर्भगवत चिक्षेप क्षेपीयः कण्ठे वैकुण्ठस्य स्वयंवरकुसुममालाम् । ____ एवं साऽपि१० कदाचिञ्चम्पककलिकाकलापगौराङ्गी रागिणी त्वयि वञ्चयिष्यति देवान् । वञ्चितो यतः पूर्वमात्मुखमण्डलश्रिया शशी, तिरस्कृतो मदनः सौभाग्येन । असकृत्प्रनृत्तायाश्च११ किमवगुण्ठनेन । विधेरिव वामभुवामचिन्त्यानि चरितानि भवन्ति । किञ्च-पुनः देवेन-राज्ञा न श्रुतम् ? अमृतमथनावसरे अमृताय-पीयूषार्थं यन्मथनं तस्यावसरे-समये एवम्विधात् क्षीरसागरात् जनित:-कृतो जगति विस्मय:-आश्चर्यं यया सा, तथा स्मरस्य जननीमाता, तथा हस्ते स्थितं तरुणं-नवं अरविन्दं पद्मं यस्याः सा हस्तस्थिततरुणारविन्दा, तथा देदीप्यमानानि पुण्यानि-पवित्राणि लक्ष्माणि-चिह्नानि यस्याः सा एवम्विधा लक्ष्मी:-देवी-अजनि-जाता । किम्भूतात् क्षीरसागरात् ? सुरासुरैः करैः कृत्वा परिवर्त्यमानः-परिभ्रम्यमाणो यो मन्दर एव-मेरुरेव मन्थान:-मन्थदण्डकः तस्य यो निर्घोषः-स्वनः तेन बधिरितः१- श्रवणापटूकृतः समस्तो रोदः कन्दर:-दिवस्पृथिवीदरी येन स तस्मात्, यत् स्वनाद् अन्यन्न किमपि श्रूयत इत्यर्थः । तथा दिवापि-दिनेपि दूरंअतिशयेन उच्छलिता:-निःसृता ये दुग्धतुषारा:-पयःकणास्तेषां य आसारः-वेगवद्वर्षस्तेन तारकितं-तारका जाता अस्मिन्निति तारकितं नभो यस्मात् स तस्मात् । “तारकादिभ्य इतच्"[तदस्य सञ्जातं तारकादिभ्य इतच् पा. सू. ५/२/३६] तथा समुत्पन्न:-जात: अनेक: कौस्तुभादिवस्तूनां विस्तारो यस्मात् स तथा तस्मात् । तथा उद्गच्छन्त्यः-तन्मथनान्नि: १. बधरित: अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy