________________
पञ्चम उच्छ्वासः
३८१ तस्मिन् विषादावसरे योग्या ये आलापास्तैरनुशीलयन्-प्रसादयन् सन् प्रणयात्-स्नेहेन आबभाषे-उवाच ।
किमवादीत् ? इत्याह
'देव, जानामि देवस्य देहं दहति दहन इव दारुणो दौत्यचिन्ताभारः । को नाम सामान्योऽपि स्वयमभिलषितेऽर्थे दूतत्वदा सभावमङ्गीकुर्यात् । विशेषतोऽनुरागिण्यङ्गनाजने । तथापिं किं न जानाति देवो, यथा याचको ब्राह्मण इव निर्वेदः कस्य संतोषाय, विषवैद्य इव विषादः संदेहकारी शरीरस्य, भीमाभिमन्युनिरुद्धं कुरुबलमिव मनो महान्तं संतापमनुभवेत् ।
तदलमनेन वातूलीभ्रमेणेव मीलयता चक्षुरुद्वेगेन ।
देवेति । हे देव !-नृप ! अहं जानामि-वेद्मि यत् देवस्य देहं दारुणः-उग्रो दूत्यचिन्ताभारो दहन इव-अग्निरिव दहति-भस्मीकरोति । नामेति सम्भाव्यते, कः पुमान् सामान्येपि-अविशिष्टेपि स्वयं-आत्मनाऽभिलषिते[ऽथें]-वाञ्छितार्थे' दूतरूपं- दासभावं अङ्गीकुर्यात् ? अपि तु न कोपि कुर्यात्, विशेषतोऽनुरागिणि स्वस्मिन्ननुरक्ते अङ्गनाजने को दूतदासत्वं यथा स त्वां वाञ्छन्तीत्येवंरूपं दूतकर्म विदधीत । तथापि देव:-नृपः किं न जानाति ? अपि तु जानात्येव । यथा निर्वेदः- खेदः कस्य सन्तोषाय भवति ? अपि तु न कस्यापि । क इव ? याचको ब्राह्मण इव । यथा अर्थो द्विजो निर्वेदः-वेदरहितः कस्य सन्तोषकृत् ? अपि तु न कस्यापि । तथा विषादः-अतीतशोचनं शरीरस्य सन्देहं करोतीत्येवंशीलः सन्देहकारी, विषादपन्नः प्राणी शरीरमपि त्यजेत् इत्यर्थः । क इव ? विषवैद्य इव । स च विषं-कालकूटमादयतीति, विषादः शरीरस्य सन्देहं करोत्येव, कदाचिद्विषादिनः शरीरं त्याजयत्येवेत्यर्थः । तथा भीमः-रौद्रो यो अभितो मन्युः-दैन्यं तेन निरुद्धं-व्याप्तं मनो महान्तं सन्तापं अनुभवेत् । किमिव ? कुरुबलमिवकक्षत्रियसैन्यमिव, तदपि भीमेन मध्यमपाण्डवेन अभिमन्युना च-अर्जुनसुतेन निरुद्धं सत् महान्तं सन्तापं अनुबभूव।
तदित्युपसंहारे, तस्मात् अनेन उद्वेगेन-दुःखेन अलं-पर्याप्तं उद्वेगं मा कुरु इत्यर्थः । किम्भूतेन ? चक्षुः-नेत्रं मीलयता-संकोचयता । केनेव ? वातुलीभ्रमेणेव-वात समूहभ्रान्त्येव । तेनापि किम्भूतेन ? चक्षुर्मीलयता तथा उत्-ऊर्ध्वं वेगो यस्य स तेन ।
१. वांछितेऽर्थे अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org