________________
३८०
दमयन्ती-कथा-चम्पू: तदिदमित्यादि । तत् इदं-दूत्यं अनुच्छ्वासविराम-उच्छ्वासनिवृत्ति विना मरणं, अन्यस्मिन् मरणे उच्छ्वासनिवृत्तिर्भवति, अत्र तु न तथेति । तथा अमोहं-मोहं वैचित्यं विना मूर्छनं, अन्यन्मूर्छनं समोहं भवति इदं च तदभावेपि । तथा अरोगं-रोगं विना अङ्गव्यथनंतनुपीडनं, अन्यदङ्गव्यथनं रोगाद् भवेत्, इदञ्च तदभावेपि । तथा अशल्यप्रवेशं-शल्यप्रवेशं विनाऽपि अन्तःशूलं- अङ्गमध्यवर्तिशूलाख्यं अस्त्रं, शल्यप्रवेशे हि अङ्गमध्ये शूलं भवत्येव, परमत्र शल्यप्रवेशाभावेपि इदं अन्तःशूलमिति । यद्वा, शूलाख्यो रोगः । “शूलं रुगस्त्रयोः" इत्यनेकार्थः [२/५२६] । तथा अदारिद्रयः-दारिद्र्यं विनापि निद्राव्याघातः । अन्यो हि निद्राव्याघातो दारिद्रयेण भवति अत्र तु तदभावेपि ।
अन्यत् किं-अपरं किम् ?
यत् आकर्णितः-श्रुतः अनुरागः-मयि प्रेमबन्धो यस्याः सा तथाविधायां तस्यांदमयन्त्यां विषये दीर्घ-चिरकालस्थायि यद् दौर्जन्यं-दौरात्म्यं तस्य दोहदं-श्रद्धा वाञ्छा यस्य तत् तेन दैवेन-विधिना मम अद्य आकस्मिकं-अकस्माद्भवं औत्सुक्यानुरागव्यवसायंऔत्सुक्येन-उत्कण्ठया यो दमयन्त्यां अनुरागव्यवसाय:-प्रेमबन्धोद्यमस्तं वन्ध्यं-निष्फलं कर्तुं अध्यवसितं-अध्यवसायः कृतः । एषामेतस्यामभिलाषे ममोद्यमस्तु निःफल एव जात इत्यर्थः ।
इदानी किमत्र श्रेयः । यद् यस्माद्धेतोरस्मात्प्रदेशात् गमनं तत्र यानं अनुपयोगं-नि:प्रयोजनं, तान् मुक्त्वा न मां अङ्गीकरिष्यतीति । तर्हि पश्चान्निवर्ते ? तत्राह-अश्लाघ्यंअप्रशस्यं निवर्तनं, निवर्तनेन लोके अयशो भविष्यतीति । तर्हि अत्रैव तिष्ठामि ? इत्यत्राह-आसनं-अत्रैवावस्थानं अपार्थकं-निरर्थकं । तर्हि अत्रैव निये ? इत्यत्राह-अयं अध्यवसाय:-मरणाभिप्रायः असाधीयान्-न सुन्दरः ।
इति चिन्ताकुले नले मनाङ्मूकीभूतेष्वासन्नवर्तिषु परिजनेषु प्रणयात्प्रावरणप्रान्तप्रच्छादित वदनभागं किमप्यासन्नमुपसृत्य शस्तत्कालयोग्यालापैरनुशीलयशीलज्ञः श्रुतशीलो नलमाबभाषे । ____ इति-अमुना प्रकारेण नले चिन्ताकुले सति तथा आसन्नवर्तिषु-निकटस्थितेषु परिजनेषु मनाक्-ईषत् मूकीभूतेषु अवदत्सु सत्सु शीलं-साधुवृत्तं जानातीति शीलज्ञः श्रुतशीलः प्रावरणप्रान्तेन-उत्तरीयपटाञ्चलेन प्रच्छादितः-आवृतो वदनभाग:-वक्त्रदेशो यस्य स, तथाविधं नलं किमपि-स्तोकं आसन्नं-समीपमुपसृत्य-आगत्य शनैः-मन्दं मन्दं तत्काले
१. न नास्ति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org