SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः ३७५ यूयमादिशत आज्ञापयत । अन्येषां हि यूयं बहुभिर्यागादिभिः कृतैर्दर्शनं दध्वे मम तु तदभावेऽपि दर्शनमदध्वं । ततो वदत किमिष्टं करोमीति भावः ॥ ५४ ॥ इति प्रकाशित प्रश्नालापे पार्थिवपुंगवे पुरंदरो दरदलितकुन्दकलिकाकान्तदन्तद्युतिद्योतिताधरदलमीषद्विहस्य लीलावलितकंधरः कुबेरमुखमवलोकयांचकार । सोऽपि 'निषधेश्वर, श्रूयतामस्मदागमनकारणम् । ‘अस्ति विदर्भाधिपतेर्भीमभूमिपालस्य सुता सुतारनयननिर्जितेन्दीवरा वरार्थिनी निजकान्तितिरस्कृत 'त्रिदिवनारीरूपसंपत्तिः कुन्ददन्ती दमयन्ती नाम । तस्याश्च३ चम्पकदलावदातदेहायाः किल स्वयंवरमहोत्सवः सांप्रतं प्रस्तुत:' इति नारदादधिगम्य वयमपि विदर्भाधिपतिपुरं प्रस्थिताः । किंतु पुरुषं लघयति स्वमुखेनार्थिभावो यतस्तत्र गत्वापि दमयन्तीं किं ब्रूमो वयमिन्द्रादयो " लोकपालास्त्वामर्थयामह इत्यसदृशं महिम्नोऽस्मद्विधेषु, स्पृहणीयरूपासि कं नोत्सुकयसीत्यनुचितमपरिचितेषु चाटुचातुर्यम्, अजरसः खल्वमरा वयमिति ग्राम्यः स्वप्रशंसोप्रकम:', प्राि त्रयाणामपि लोकानामाधिपत्यमस्मत्संगमादिति महत्प्रागल्भ्यप्रलोभनम्, अल्पायुषो मानुषा १० स्तदस्माकं देवानां मध्ये कंचिद् वृणीष्वेति पापीयः परदोषोदाहरणद्वारेणाभ्यर्थनम् । पार्थिवपुङ्गवे-नले इति–अमुना प्रकारेण प्रकाशित: - १ प्रकटितः प्रश्नालापः किं प्रियमाचरामीत्येवंरूपो येन स तथाविधे सति पुरन्दरः- शक्रो दर:- ईषत् दलिता-विकसिता या कुन्दकलिका कुन्दः - पुष्पविशेषस्तस्य कलिका - कोरकस्तद्वत् कान्ता - श्वेता या दन्तद्युति:-दशनदीधितिस्तया द्योतितं - प्रकाशितं अधरदलं यस्मिन् कर्मण्येवं यथा भवति तथा ईषद्विहस्य- स्मितं विधाय लीलया - विलासेन वलिता - परिवर्तिता वक्त्रीकृता कन्धराग्रीवा येन ईदृग्विध सन् कुबेरमुखं आलोचयाञ्चकार - ददर्श । दरेत्यव्ययमीषदर्थे । १ - २. प्रकासितः अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy