SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: शक्रेणावलोकितः सन् सोऽपि कुबेर इत्यभिधाय उक्त्वा व्यरंसीत्-विरराम, तूष्णीमस्थात् । ईतीति किम् ? हे निषधेश्वर ! - नल ! अस्माकं यदागमनं तस्य कारणंनिमित्तं श्रूयतां-आकर्ण्यतां त्वयेति विशेष: । आगमनकारणमेवाह ३७६ विदर्भाधिपतेः-भीमभूपालस्य सुता दमयन्ती नामेति प्रसिद्धा अस्ति । किम्भूता ? सुताराभ्यां-शोभनकनीनिकाभ्यां नयनाभ्यां निर्जितं इन्दीवरं यया सा । तथा वरं वरयितारं अर्थयते-अभिलषतीत्येवंशीला या सा वरार्थिनी । तथा निजकान्त्या आत्मशरीरशोभया तिरस्कृता-निर्जिता-त्रिदिवनारीणां - अप्सरसां रूपसम्पत्तिः - सौन्दर्यसम्पद् यया सा तथा कुन्दवत् दन्ता यस्या: सा कुन्ददन्ती । " स्त्रियां संज्ञायाम्" [पा. सू. ५/४/१४३] इति दत्त्रादेशः नासिकोदरोष्ठेत्यादिना नदादित्वादी: । तस्याश्च चम्पकदलवत् - चम्पकपत्रवत् अवदात:- विमलो मनोज्ञो वा देहो यस्याः सा तस्या:-गौराङ्ग्याः दमयन्त्याः, किलेति वार्त्तायां स्वयम्वरमहोत्सवः साम्प्रतं प्रस्तुत इति नारदात् अधिगम्य-ज्ञात्वा वयमपि विदर्भाधिपतेः - भीमस्य पुरं प्रति प्रस्थिताः । " अवदातं विमले मनोज्ञेप्सितपोतयोः " [४ / ९६] इत्यनेकार्थः । तर्हि भवद्भिरेव किनिति तत्र न गम्यते ? तत्राह किन्त्विति । स्वमुखेन-निजवक्त्रेण अर्थिभाव:- याचकत्वं यतः पुरुषं लघयति-लघुं करोति - हीनी करोति, यदा स्वमुखेनैव याच्यते तदा गुरोरपि लाघवं स्यात् । लघ " तत्करोति तदाचष्टे” [पा. गण. चुरादि.] इति णिच् । पुनस्तत्रागमने हेत्वन्तरमाह-तत्रेति । तत्र गत्वापि दमयन्तीं प्रति किं ब्रूमः - किं वदामः ? वयं इन्द्रादयो लोकपालाः त्वां दमयन्तीं अर्थयाम इति अस्मत्विधेषु - अस्मत्सदृक्षेषु महिम्न:- अनुभावस्य असदृशं - अतुल्यं, एतदर्थनमस्मन्महिमाया अनुचितमित्यर्थः । अथ स्पृहणीयं- अभिलषणीयं रूपं यस्याः सा एवंविधा त्वं कं नोत्सुकयसि-नोत्सुकं कुरुषे, इति अपरिचितेषु - असंस्तुतेषु चाटुचातुर्यं प्रियवचनकौशलं अनुचितं, परिचितानामेव पुरश्चाटु- चातुर्यं दर्श्यते नापरिचितानाम् । अथ खलु निश्चितं वयं अमरा: अजरस:-जरया रहिता, जराराहित्यं स्त्रीणां प्रलोभकमिति वचनात्, इति स्वप्रशंसायाः-स्वीयवर्णनायाः प्रक्रमः - अवसरो ग्राम्य: - अनुचितः । " प्रक्रमोऽवसरे क्रमे " [३/४९८] इत्यनेकार्थः । अथ त्रयाणामपि लोकानां स्वर्गमर्त्यपातालानां आधिपत्यं ऐश्वर्यमाप्नुहि, अस्मत्सङ्गमात् इति महता प्रागल्भ्येन - उत्साहेन प्रलोभनं - विमोहनं । " लुभ विमोहने” [पा. धा. १३०६ ] | अथ अल्पायुषा :- अल्पजीवितधारिणो मानुषास्तत्तस्माद्धेतोः १. शेषः अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy