SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ३७४ दमयन्ती-कथा-चम्पू: शच्याः-इन्द्राण्याः कुचकलशयोर्यः संस्पर्शः-संघट्टनं तेन संक्रान्ता-प्रतिबिम्बिता कुङ्कुमपत्रवल्ली-घुसृणपत्रलता यस्मिन् स तेन । “बहुव्रीहौ कः" [ ] । च-पुनः कुशलप्रश्नालापस्य यो व्यतिकरः-सम्पर्कः भवतां कुशलमित्येवंरूपस्तं कृत्वा अवनिभुजा-नलेन स्वहस्ताभ्यामुपनीतं दत्तं उच्चैः-उत्कृष्टं काञ्चनासनंसौवर्णपीठमध्यतिष्ठत्-अशिश्रयत् । किम्भूतं काञ्चनासनम् ? उल्लसन्ती-निर्गच्छन्ती या मणिमयूखमञ्जरी-रत्नकिरणमञ्जरी तस्या यज्जालं-वृन्दं तेन जटिलं-व्याप्तम् । च-पुनः यमवरुणकुबेरप्रमुखेषु देवेषु यथोचितासनं-यथायोग्यपीठं आसन्नेषु इन्द्रस्य निकटेषु उपविष्टेषु सत्सु क्रमेण-यथा ज्येष्ठादिपरिपाट्या कृत उचित:-योग्य आचारःपादधावनादिर्येन सः, एवम्विधो निषधेश्वरः-नलः पुरस्तेषामेव अग्रे विनयात् पृथिवीपृष्ठे एव-भूतले' एव निषद्य-उपविश्य पुरन्दरं-इन्द्रमवादीत् । दिष्ट्या दिवौकसां नाथ जातो युष्मत्समागमात् । आकल्पं कीर्तनीयानां श्रेयसामस्मि भाजनम् ॥ ५३ ॥ दिष्ट्येति । हे दिवौकसां नाथ !-शक्र ! युष्माकं समागमात्-आगमनात् अस्मि-अहं दिष्ट्या-आनन्देन आकल्पं आयुगान्तं कीर्त्तनीयानां-प्रशस्यानां श्रेयसां-कल्याणानां भाजनंआश्रयो जातः । “दिष्टिरानन्दे माने च" [२/९३] इत्यनेकार्थः । अस्मीति अव्ययमहमर्थे। ॥५३॥ अपि च इष्ट्वा क्रतून्युगशतानि तपश्चरित्वा, वाच्छन्ति संगमसुखं मुनयोऽपि येषाम् । तेषामनुग्रहकृतां स्वयमेत्य मेऽद्य, युष्माकमादिशत किं प्रियमाचरामि ॥ ५४ ॥ अपि च-पुनः इष्ट्वेति । हे भगवन् ! येषां-भवतां मुनयोऽपि क्रतून्-यागान् इष्ट्वा यागान् विधायेत्यर्थः । यथा' युगशतानि तपश्चरित्वा-तपोविधाय संगमः-संयोग एव सुखं तद् वाञ्छन्ति-ईहन्ते । अद्य-स्वयमेत्य-आगत्य न तु यागादिप्रेरणया मे-मम अनुग्रहं-प्रसाद कुर्वन्तीति अनुग्रहकृतस्तथाविधानां तेषां युष्माकं किं प्रियं-इष्टं आचरामि-करोमि, १. भूतल अनू. । २. प्रशंस्यानां अनू. । ३. अहमित्यर्थे अनू. | ४. तथा अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy