________________
३७३
पञ्चम उद्दासः
रक्तता तथा अरुणस्य-सारथेर्या प्रभा - कान्तिः तथा मण्डलं- बिम्बं ततो द्वन्द्वः, एतानि मण्डनंअलङ्करणं यस्य सः ।
अवतीर्य चक्षुषां सहस्रेणोन्मीलन्नीरजवनानुकारिणा निरूप्य पादयोः पुरः पतितमष्टाङ्गाश्लिष्टभूतलमिमम्, ऐरावतकुम्भकूटास्फालनकर्कशाङ्गुलिना,
दुर्दान्तदैत्यदानववधूवैधव्यदानशालामूलस्तम्भेन, शची
कुचकलशसंस्पर्शसंक्रान्तकुङ कुमपत्त्रवल्लीकेन, दक्षिणपाणिना सहेलमुन्नमय्य मूर्ध्नि पस्पर्श ।
कृत्वा च कुशलप्रश्नालापव्यतिकरानुञ्चैः काञ्चनासनसमुल्ल'सन्मणिमयूखमञ्जरीजालजटिलमवनिभुजा स्वहस्तापनीतमध्यतिष्ठत् ।
चोपविष्टेषु यथोचितासनमासन्नेषु५ यमवरुणकुबेरप्रमुखेषु देवेषु क्रमेण कृतोचिताचारः पुरः पृथ्वीपृष्ठ एव विनयान्निषद्य निषधेश्वरः पुरंदरमवादीत् ।
अथ अम्बरादवतीर्य - उत्तीर्य पुरन्दरः उन्मीलद् - विकसत् नीलं - नीलवर्णं यन्नीरजवनंकमलखण्डं तत् अनुकरोतीत्येवंशीलं नीलकमलखण्डतुल्यं तेन चक्षुषां सहस्रेण पादयोः पुरः-अग्रे पतितं अष्टभिरङ्गैः-शिरोनासाकूर्प्परजानुपादद्वयरूपैः श्लिष्टं - आश्लिष्टं भूमितलं येन स तथा इमं-नलं निरूप्य - अवलोक्य, एवम्विधेन दक्षिणपाणिना - अपसव्यहस्तेन सहेलंसविलासं यथा भवति तथा उन्नमय्य - उच्चैः कृत्वा मूर्धिन - शिरसि पस्पर्श-परामृशत् । किम्भूतेन दक्षिणपाणिना ? ऐरावतकुम्भकूटस्य - ऐरावणकुम्भस्थलस्य यत् आस्फालनंतत्प्रोत्साहनाय ताडनं तेन कर्कशा : - कठोरस्पर्शा अङ्गुलयो यस्य स तेन । तथा दुर्दान्ताःउत्कटास्तथा दितेरपत्यानि दैत्या एवम्विधा ये दानवाः - असुरास्तेषां या वध्वस्तासां वैधव्यरूपं यद्दानं तस्य या शाला तस्या मूलस्तम्भ इव- - मूलस्थूणेव य: स तेन । यथा दानशालामूलस्तम्भेन ध्रियते तथा येन स्वपाणिना तद्वधूवैधव्यदानशाला अध्रियत, स्वकरेण दानवानां हननात् तासां वैधव्यदत्तमित्यर्थः । दैत्येति "दित्यदित्यादित्यपत्युत्तरपदाण्य:” [पा. सू. ४ / १२ / ८५] इति प्राग्दीव्यतीयार्थेषु ण्यः । अत्र पदसंस्कारपक्षाश्रयणाद्दैत्यपदस्य विशेषणत्वं बोद्धव्यं, अन्यथा असुरादिति दनुजा: [ २ / १५२] इत्यभिधान कोषप्रामाण्यात् उभयोः पर्यायरूपत्वेनैकत्रयुगपदुपन्यासेऽन्यतरस्य वैयर्थ्यामापद्येत । तथा
Jain Education International
१
For Personal & Private Use Only
www.jainelibrary.org