________________
३७०
दमयन्ती-कथा-चम्पू: हे निषधेश्वर !-नल ! त्वरितं-शीघ्रं उत्तिष्ठ-उत्थानं कुरु । अर्घाय-पूजाविधये सज्जो
भव ।
किं न पश्यसि
अवतरति घृताचीस्कन्धविन्यस्तहस्तः, श्रुतिसुखकृतगीते किंनरे दत्तकर्णः । किमपि सपरिरम्भं रम्भयारभ्यमाण
व्यजनविधिरधीशः स्वर्गिणामेष देवः ॥५१॥ किं न पश्यसि-नावलोकयसि ?
अवतरेति । एष स्वर्गिणां देवानामधीशः-स्वामीरेव-पुरन्दरः अवतरति । किम्भूतः? घृताच्याः-इन्द्राण्याः स्कन्धे अंशे लीलया विन्यस्तः-दत्तो हस्तो येन सः । तथा श्रुतीकी सुखयतीति श्रुतिसुखं-श्रवणसुखकारि “पचाद्यच्" [ ], एवम्विधं कृतं गीतंगानं येन स तस्मिन्, किन्नरे दत्र्ती की येन सः, तथा किमपि-कथञ्चित् सपरिरम्भंसालिङ्गनं यथा भवति तथा रम्भया-अप्सरो विशेषेण आरभ्यमाणः-क्रियमाणो व्यजनविधिः-वीजनप्रकारो यस्य सः ॥ ५१ ॥ अपि च
विरचितपरिवेषाः स्वामिरङ्गप्रभाभिभुवनवहनभारोद्धारधुर्यांसपीठाः । उरसि परिविलोलद्दीर्घदामान एते,
यमवरुणकुबेराः स्वामिनो लोकपालाः ॥ ५२ ॥ अपि च-पुन:
विरचितेति । एते यमवरुणकुबेराः स्वामिनः-अधीशा लोकपाला अवतरन्तीति गम्यते। किम्भूताः? स्वाभिः-स्वीयाभिः अङ्गप्रभाभिः-देहकान्तिभिः विरचितः-कृतः परिवेषः-परिवेष्टनं? येषां ते, कान्तिकलापकलिता इत्यर्थः । तथा भुवनस्य-जगतो यद्वहनं-निर्वाहस्तदेव भारस्तस्य उद्धारे-उद्धरणे धुर्य इव धौरेय इव अंसपीठं-स्कन्धकूटं येषां ते तथाविधाः, यथा धुर्येण भार उध्रियते तथा यैर्जगत्पालनादिभारः स्वस्कन्धपीठे व्यूढोस्ति । तथा उरसि-हृदये परिविलोलद्दोलायमानं दीर्घ प्रलम्बं दाम-माला येषां ते तथाविधाः ।। ५२ ।। १. परितो वेष्टनं. अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org