SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ पञ्चम उठासः ३७१ राजा तु तदाकर्ण्य ससंभ्रमोत्थानवशवल्गितोत्तरीयाञ्चलस्खलत्कनककंकणरणत्कारमुखरितमाधाय मूर्ध्नि संपुटित पाणिपल्लवयुगलमाश्चर्यरसरभसोच्छ्वास्यमान सर्वाङ्गपुलकः कतिपयपदान्यभिमुखः परिजनेन सहोच्चलितवान् । राजा तु-नलः तद्देवोक्तमाकर्ण्य-श्रुत्वा सम्भ्रमः-भयादिभिश्चित्तव्याक्षेपात् त्वरणं तेन सहितं सादरं वा यथा भवति तथा यदुत्थानं तद्वशात्-तन्निमित्ताद् वल्गितः-उच्छलितो य उत्तरीयाञ्चल:-वैकक्षपटप्रान्तस्तेन स्खलद् यत्कनककङ्कणं-स्वर्णकटकं अतएव तस्य यो रणत्कारस्तेन मुखरितं-वाचालितं एवंविधं सम्पुटितं-मीलितं यत्पाणिपल्लवयुगलं तन्मूनि आधाय-संस्थाप्य आश्चर्यरसस्य-अद्भुतरसविशेषस्य यो रभस:-वेगस्तेन उच्छ्वास्यमानाःउल्लास्यमानाः सर्वाङ्गे पुलका:-रोमाञ्चा यस्य स एवम्विधः सन् परिजनेन-परिवारेण सह कतिपयपदानि अभिमुख:-पुरन्दरादीनां सम्मुख उच्चलितवान्-जगाम । “सम्भ्रमो भीतौ संवेगादरयोरपि" इत्यनेकार्थ [३/५०४] । “रभसो वेगहर्षयोः" [३/७९५] इत्यनेकार्थः । अथ सकलसुरशिरःशेखरायमाणचरण रेणुरनेकनाकि कामिनीकुचकुम्भकुङ कुममञ्जरीमुद्राङ्कितविपुलवक्षःस्थलीदृश्यमानमहानीलमणिमण्डननिभ भव्यवृत्रशस्त्रव्रणः, श्रवणशिखरारोपितप्रत्यग्रपारिजातमञ्जरीगलबहलझिल्ककणानुपान्ते गायतस्तम्बरो:८ साक्षादमतायमानगीतरसतुषारानिव परिपूर्णकर्णोद्गीर्णान्कपोलपालिलग्नानुद्वहन्, अनवरतशचीचुम्बनसंक्रान्तताम्बूललाञ्छनायमानाच्छाच्छ हरिचन्दननिरुद्धबन्धुरस्कन्धसंधिः, अन्धक इव हारयष्ट्यास्फालितवक्षःस्थलः, विन्ध्यगिरिरिव सहस्राक्षः, पन्नगेन्द्र इव कुण्डली पातालमुद्भासमानश्च, कलिकालशापावतीर्णसरस्वतीगीतप्रवाह इव मत्तमातङ्गगामी, दिशि दिशि विकीर्णकनककपिशांशुरंशुमानिवाविकृतपद्मरागारुणप्रभामण्डलमण्डनः, सह लोकपालैर्भगवान्पुरंदरः पूर्वदिग्भागाम्बरादवातरत् । __ अथ-अनन्तरं लोकपालैः- यमादिभिः सह भगवान् पुरन्दरः-इन्द्रः पूर्वदिग्भागाम्बरात्-पूर्वदिग्भागव्योम्नः अवातरदित्यन्वयः । किम्भूतः शक्रः ? सकलसुराणां शिरस्सु शेखरायमाण:-अवतंसोपमः चरणरेणुर्यस्य सः, सर्वैरपि सुरैर्यत्पादौ नम्येते इत्यर्थः । तथा अनेका या नाकिकामिन्यः-अप्सरसस्तासां कुचकुम्भयोर्या कुङ्कुममञ्जरीघुसृणपङ्कस्तस्या Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy