SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ३६९ पञ्चम उच्छ्वासः तत्स्वरूप:-तदात्मक:, तथा प्रसन्नाः - विशदाः प्रयुज्यमाना:- क्रियमाणा ये तानविशेषास्तैरभिव्यक्ताः-प्रकटाः स्पष्टा:- अहीना या श्रुतय:- द्वाविंशतिप्रभेदाः सङ्गीतशास्त्रे ' प्रसिद्धास्ताभिः सुभगः - अभिरामः । तथा चोक्तम् सप्त स्वरास्त्रयो ग्रामाः मूर्छनास्त्वेकविंशतिः । ताना एकोनपञ्चाशदेतद् गेयस्य लक्षणम् ॥ २ [ स्वरा:-षड्जऋषभगान्धारमध्यमपञ्चमधैवतनिषधाः सप्त । षड्जऋषभौ द्वौ ग्रामौ गान्धारश्च । अस्य तु स्वरूपं स्वर्गादेव ज्ञातुं शक्यते, तत्स्थत्वात् । च- पुनरेवम्विधो वायुरवात् वाति स्म । किम्भूतः ? चलत् - सञ्चरद् यदलिपटलंभ्रमरवृन्दं तेन पीयमाना:- चुम्ब्यमाना अपूर्वपरिमलोद्गारिणः- अद्भुतामोदप्रवर्तका ये पारिजातमञ्जरीणां कल्पतरुमञ्जरीणां मकरन्दबिन्दवः - रसकणास्तेषां वर्षं वर्षणं सेचनं वहतीत्येवंशीलः, मकरन्दबिन्दुभिर्भुवं सिञ्चन्नित्यर्थः । अथ कौतुकोत्तानिताननेन नरपतिनाप्यदृश्यत शातकुम्भभङ्गपिशङ्गप्रभामण्डलमध्यवर्तिनः प्रधानपुरुषस्याग्रे गृहीतजात्यजाम्बूनददीर्घदण्डः कुण्डलालंकारवानुन्मिषन्मन्दारमुकुलमालामण्डितमौलिरवतरन्नम्बरान्निर्निमेषः सुवेशः पुरुषः । अवतीर्य च सोऽतिविस्मयविस्फारितलोचन रे मवनिपालमवादीत् । 'निषधेश्वर, त्वरितमुत्तिष्ठ । अर्घाय सज्जो भव । अथ-दिव्यध्वनेरुच्चारादेवम्विधवायोश्च वानात् अनन्तरं कौतुकेन उत्तानितंउच्चैर्विहितं आननं मुखं येन एवंविधेन नरपतिनापि - नलेनापि अम्बरात् अवतरन् निर्निमेष:-अक्षिसंकोचरहितः सुवेषः - शोभनाकल्पः पुरुषः अदृश्यत - दृष्टः । किम्भूतः ? शातकुम्भं स्वर्णं तस्य यो भङ्गः- विच्छेदस्तद्वत् पिशङ्गं - पिङ्गलं यत्प्रभामण्डलं-कान्तिवृन्दं तस्य मध्ये वर्तितुं शीलं यस्य स तथाविधस्य, प्रधानपुरुषस्य अग्रे गृहीत: - धृतो जात्यजाम्बूनदस्य-शुद्धस्वर्णस्य दीर्घः - प्रलम्बो दण्डः - यष्टिर्येन सः, तथा कुण्डलालङ्कारवान्-कुण्डलालङ्कृतगण्ड:, तथा उन्मिषन्ती - विकसन्ती या मन्दारमुकुलमालाकल्पतरुकुड्मलस्रक् तथा मण्डितः - विभूषितो मौलिः - मस्तकं यस्य सः । अवतीर्य च स-पुरुषः अतिविस्मयेन - अत्याश्चर्येण विस्फारिते - विकासिते लोचने येन तं अवनिपालं-नलमवादीत् । १. शास्त्र' अनू. । Jain Education International , For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy