SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ३६८ किमु कुवलयनेत्राः सन्ति नो नाकनार्य१ स्त्रिदशपतिरहल्यां तापसीं यत्सिषेवे । हृदयतृणकुटीरे दीप्यमाने स्मराग्ना - वुचितमनुचितं वा वेत्ति कः पण्डितोऽपि ॥५०॥ किम्विति । कुवलयनेत्राः - नीलोत्पलोपमलोचना नाकनार्य:-देवाङ्गनाः किमु किं नो सन्ति - न विद्यते ? यत् त्रिदशपतिः - इन्द्र: अहिल्यां - गौतमजायां तापसीं सिषेवे भेजे । परं हृदयमेव तृणकुटीरं-तृणाश्रयस्तस्मिन् स्मर एव अग्निस्तस्मिन् दीप्यमाने ज्वलति सति कः पण्डितोऽपि - विद्वानपि उचितं - इदं योग्यं अनुचितं वा इदं अयोग्यं इति वेत्ति ? अपितु न कोऽपि । अतएव स्मराकुला अमी अपि स्वानुचितामपि चक्रवाकीं कामयन्त इति, न कामिनां काऽपि असमञ्जसतेति । "हस्वा कुटी कुटीरं कुटी शुण्डाभ्यां ह्रस्वे र: " [कुटीशमीकुण्डाभ्यो रः पा. सू. ५ / ३ / ८८] ॥ ५० ॥ दमयन्ती - कथा - चम्पूः एवम्वादिनि राजनि, अकस्मात्कोमलकण्ठकुहरप्रेङ्खोलनालंकारसुन्दरोऽमन्दमूर्छनावच्छिन्नसरसरसस्वरूपः प्रसन्नप्रयुज्यमानतानविशेषाभिव्यक्तस्पष्टश्रुतिसुभगो गगने गान्धारग्रामगामी गीतध्वनिरुदचरत् । अवाच्च' चलदलिपटलपीयमानापूर्वपरिमलोद्गारिपारिजातमञ्जरीमकरन्दबिन्दुवर्षवाही वायुः । एवं अमुना प्रकारेण वदतीत्येवंशील, एवंवादी तस्मिन् एवम्वादिनि राजनि-नले सति अकस्मात्-अकाण्ड एव गगने - व्योम्नि गान्धार एव ग्राम: - ग्रामविशेषस्तं गच्छतिप्राप्नोतीति गान्धारग्रामगामी गीतध्वनिरुदचरत् - उच्चचार, ऊर्ध्वं जगामेत्यर्थः । *उदश्चरः सकर्मकात् उत्पूर्वाच्चरतेः सकर्मकात् तङानौ स्तः, धर्ममुच्चरते उत्क्रम्य यातीत्यर्थः, सकर्मकात् किं धूम उच्चरति ऊर्ध्वं गच्छतीत्यर्थः । * “गान्धारो रागसिन्दूरस्वरेषु नीवृदन्तरे " इत्यनेकार्थ: [३/५८५] । “ग्रामो वृन्दे शब्दादिपूर्वके षड्जादौ संवसथेच " [ ] इति । गान्धारगामीति पाठान्तरम् । किम्भूतः ? कोमलं - मृदु कण्ठकुहरे - गलनाले यत् प्रेङ्खोलनंघोलनं तदेवालङ्कारस्तेन सुन्दर:- मनोज्ञः, तथा अमन्दा: - अनल्पा या मूर्छना:षड्जगान्धारमध्यमप्रभृतिस्वरेषु एकस्मात् स्वरात् स्वरान्तरगमनरूपाः स्वरसारणास्ताभिरवच्छिन्ना:- क्रोडीकृताः सरसा:- मधुरा ये स्वरा:- षड्जादयः सप्त ★ ★ चिह्नान्तर्गतपाठोनास्ति अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy