SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ पञ्चम उवासः ३६७ तांश्च विलोक्य राजा विहसन्नासन्नवर्तिनं श्रुतशीलमाबभाषे । 'वयस्य, विलोक्यतामिदमसमञ्जसम् । अमी राजहंसा: सतीष्वपि स्वजात्युचितानुचरीषु कथमन्यासक्तामपीमां चक्रवाककामिनी कामयन्ते । न खल्वेषामियमनङ्गक्रीडा भूमिः । । । अथ-एकान्ते आस्थानगोष्ठीरचनानन्तरं अस्य नलस्य पुरः-अग्रे नातिदूरे-समीपे शीतं यच्छैवलचक्रवालं-शेवालवृन्दं तस्मिन् चरतः-सञ्चरतः चक्रवाककदम्बकस्य मध्ये कोऽपि चक्रवाकयुवा-तरुणचक्रवाक: पक्षपुटं-पक्षतिद्वन्द्वं उत्क्षिप्य-उच्चैविधाय तथा ग्रीवाग्रमुन्नम्यउच्चैर्दीधैं कृत्वा अनङ्गेन-कामेन परवशः-पराधीनो अनुरागिणीं-स्वस्मिन्ननुरक्तां काञ्चिच्चक्रवाकी प्रति दूरादुपसर्पन्-समीपमागच्छन् दर्शितं चाटु-प्रियप्रायं चातुर्य-कौशलं येन ईदृग्विधः सन् दृष्टिपथं-दृष्टिमार्ग अवातरत्-अवतीर्णं, दृष्ट इत्यर्थः । अपरे च चत्वारो राजहंसास्तामेव चक्रवाकी कामयमानाः-अभिलषन्तः तंचक्रवाकयुवानं आपतन्तं-आगच्छन्तं अन्तरान्तरा-अन्तरन्तर्निपत्य स्खलयाम्बभूवुःतत्प्रतिघातं चक्रुः । तांश्च-राजहंसान् विलोक्य राजा विहसन् आसन्नवतिनं-निकटस्थितं श्रुतशीलमाबभाषे-अवदत् । हे वयस्य ! मित्र ! इदं असमञ्जसं-अन्यायो विलोक्यतां । को अन्यायः । इत्यत्राह अमी राजहंसाः स्वजाते:-हंसजातेरुचिता योग्या या अनुचर्यः-हंस्यस्तासु सतीष्वपि-विद्यमानास्वपि कथं-इति प्रश्ने अन्यस्मिन् चक्रवाके आसक्तां-बद्धप्रीतिमपि इमां चक्रवाककामिनी-चक्रवाकी कामयन्ते-अभिलषन्ति । एषां-हंसानां इयं-चक्रवाकी न खलु-नैव अनङ्गक्रीडाया भूमि:-स्थानं नात्र एषां सुरतक्रीडा युज्यत इत्यर्थः । एतावता यथा चक्रवाकी चक्रवाकस्य सजातीया एवं मनुष्यजातेर्नलस्य मानुषी दमयन्ती उचिता, यथा हंसानामनुचिता एवं लोकपालानां दमयन्तीति सूचितम् । अथवा अथवा-इति पक्षान्तरे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy