SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ३६६ दमयन्ती-कथा-चम्पू: ईदृशं यत् पुलिनपृष्ठं तस्मिन्नेव आस्थानगोष्ठी-सभासंलापं बबन्ध-रचयामास । यावत्सैन्यस्य कोलाहलनिवृत्तिर्न भवति तावदत्रैव विद्वद्गोष्ठी करिष्याम इति भावः । इतीति किम् ? भो किङ्कराः ? तुरङ्गाणां मन्दुरा-वाजिशाला विरचय-कुरुत । मन्दुरापदेनैव वाजिशालात्वे लब्धे तुरङ्गपदं करिकलभवदुक्तपोषकत्वान्न दुष्टम् । तथा सरसा:-आर्द्राः दीर्घाः-प्रलम्बा या दूर्वाश्च अनन्ता नलाश्च-नडास्तैर्नीलाः-नीलवर्णा या निम्नस्थल्यः-नीचैर्भूमयस्तासु कायमानानि-तृणौकांसि कुरुत । कायमानं माहिषादितृणमयावास विशेषः । तथा सरित:नद्याः सेव्यानि-सेवितुं योग्यानि यानि सैकतानि-जलोम्झिततटानि तेषु पटकुटी:-वस्त्रगृहाणि उन्नमयत-वंशैरुत्तम्भयत । तथा समदाः-सदानाम्बवो मत्ताः-दृप्ता ये मतङ्गजा:-हस्तिनस्तान्, क्वचित् मदमत्तेति पाठस्तत्र मदेन-वीर्यविपाकेन मत्ता नत्वौषधादिप्रयोगात् ये मतङ्गजास्तान् कूलकाननेषु-सरित्तटवनेषु मदेन-दानेन कण्डूलयो:-कण्डूयावतोः कपोलयो:गण्डयोः काषं-कषणं सहन्ति ये ते तथाविधेषु, सल्लक्यश्च-गजप्रियाः सर्जाश्च-साला: अर्जुनाश्च-कुकुभाख्यद्रुमाः२ सल्लकीसर्जार्जुनाः, सरलाः-प्रलम्बाः शाला:-स्कन्धाशाखा येषां एवंविधा ये सल्लकीसर्जार्जुनास्तेषां स्कन्धेषु-प्रकाण्डमस्तकेषु आलानयत-बध्नीत । सरलसालेति पाठे सरलसाला:-देवदारुतरवः । “सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि" इत्यनेकार्थः [२/५२७] । कण्डूः खजूंरस्यास्तीति कण्डूलः, “सिध्मादित्वात्" [पा. सू. ५/ /२/९७] मत्वर्थे लप्रत्ययः । तथा शैवलानि-शेवालानि शिलाश्च- दृषदः जालानि चमर्कटिकाख्यकृमिकृतगृहाणि काष्ठानि च दारुणि कूटञ्च-वप्रं कण्टकानां पटलं च-वृन्दं एतानि दूरं इतः स्थलाद्विप्रकृष्टं देशं उत्सारयत-अपनयत । तथा विषमा निम्नोन्नता ये भूभागा:-भूप्रदेशास्तान् समीकुरुत-समारचयत । ___अथ नातिदूरे पुरोऽस्य शीतशैवलचक्रवाले चरतश्चक्रवाककदम्बकस्य मध्ये कोऽप्युत्क्षिप्य पक्षपुटम्, उन्नमय्य ग्रीवाग्रम्, अनङ्गपरवशो दूरादुपसर्पन्ननुरागिणीं काञ्चिञ्चक्रवाकी, दर्शितचाटुचातुर्यश्चक्रवाकयुवा दृष्टिपथमवातरत् । अपरे च चत्वारो राजहंसास्तामेव चक्रवाकी कामयमानास्तमापतन्तमन्तरान्तरा' निपत्य स्खलयाम्बभूवुः । १. रोहिषादि° अनू. । २. ककुभारन्यद्रुमाः अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy