SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ पञ्चम उछ्वासः धत्ते सैकतमुन्नदन्मदकलक्रौञ्चावलीसारसा'नस्या: पद्मपरागपिङ्गपयसः सेव्यं च सिन्धोर्न किम् ॥ ४९ ॥ इतश्च - अस्मिन्प्रदेशे, वीचीनामिति । अस्याः - नर्मदाया वीचीनां निचया:-‍ - समूहा जलदान्-मेघान् स्पृशन्ति - आश्लिष्यन्ति उच्चत्वात् । किम्भूता: ? उद्गन्धीनि - उद्गतसुरभिगन्धीनि सौगन्धीनि - सौगन्धिकानि कल्हाराणि येषु ते तथाविधाः । “उद्गन्धिरिति गन्धस्येदुत्पूतिसु सुरभिभ्यः " [ ] इतीदन्त: । च पुन: वीचीनां निचया रोधांसि तटानि स्पृशन्ति । किम्भूतानि रोधांसि ? नृत्यत् - ताण्डवयत् केकिनां कदम्बकं-वृन्दं येषु तानि, तथा विकसन्त्यः - पुष्पन्त्यो वीरुधः - लता येषु तानि । तथा अस्या:- नद्याः सैकतं जलोज्झिततटं? क्रौञ्चावल्यश्च सारसाश्च क्रौञ्चावलीसारसाः उन्नदन्तः - उच्चैः कूजन्तो मदेन कला - मनोज्ञा ये क्रौञ्चावलीसारसास्तान् धत्ते - बिभर्ति । चकारो वार्थे, वा- अथवा, अस्यां नद्याः सिन्धोः- नर्मदायाः किं न सेव्यन्ते । अपितु सर्वमपि । किम्भूतायाः सिन्धोः ? पद्मानां पराग:-रजस्तेन पिङ्गं - पिञ्जरं पय: - जलं यस्याः सा तस्याः ॥ ४९ ॥ " तदुचितमिहाद्य दिवसमावासं कर्तुम्' इति विचिन्त्य भ्रूकोणसंज्ञाज्ञापितसेनासन्निवेशस्तत्कालमेव 'विरचयत तुरङ्गमन्दुरा: ६ सरसदीर्घदूर्वानल 'नीलनिम्नस्थलीषु, कुरुत कायमानानि सरित्सेव्यसैकतेषु, उन्नमयत पटकुटी:, कूलकाननेषु आलानयत ' समदमत्तमतङ्गजान्मदकन्डूलकपोलकाषसहेषु सरलशालसल्लकीसर्जार्जुनस्कन्धेषु, दूरमुत्सारयत शैवलशिलाजालकाष्ठकूटकण्टकपटलानि, समीकुरुत विषमभूभागान्' इति ३६५ सेनापतिप्रमुखमुखरलोककलकलमुत्तालमुत्थितमसहमानस्तद्विरामावसरं प्रतिपालयन्नेकान्तेऽन्यतमप्रदेशे तस्याः सरितः सूक्ष्ममुक्ताफलक्षोदधवलबालुकापुलिनपृष्ठ एवास्था गोष्ठीं बबन्ध । तत्-तस्माद्धेतोः इह प्रदेशे अद्य दिवसमावासं निवासं कर्त्तुमुचितमिति विचिन्त्य - विचार्य भ्रूकोणेन-थ्रू कोट्या या संज्ञा - प्रयोजनसूचनं तया भ्रूप्रान्तसंकेतेन ज्ञापितः सेनासन्निवेशः-चम्ववस्थानं येन सः, ईदृशो नल इति- अमुना प्रकारेण तत्कालमेवसेनासन्निवेशसमय एव उत्तालं - शीघ्रं उत्थितं - उच्छलितं सेनापतिप्रमुखा:- चमूपतिप्रभृतयो मुखरा:-वाचालाः ये लोकास्तेषां कलकलं - कोलाहलं असह्यमानस्तस्य कोलाहलस्य विरामावसरं-निवृत्तिसमयं प्रतिपालयन् - प्रतीक्षमाणः तस्याः सरित: एकान्ते - विजने अन्यतरप्रदेशे सूक्ष्मः-तनुर्यो मुक्ताफलक्षोदः - मौक्तिकचूर्णं तद्वद्धवला - श्वेता बालुका यत्र १. जलोज्झितं तटं अनू. । २. सेव्यं अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy