SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः नवा:-नूतनाः कपोलाश्च- पारापता: कुक्कुटाश्च - ताम्रचूडाः कुकुहाश्च पक्षिविशेषास्तेषां कलंमधुरं कुहरितं - शब्दितं येषु तानि तथा तेषु । " कुहरितं तु रटिते पि कालापे रतस्वने" इत्यनेकार्थः [४/११०] । तथा कूजन्त: - शब्दायमाना ये कुररा:- पक्षिभेदास्तैः परिवारितःवेष्टितः सरःपरिसरः-सरसीसमीपं येषु तानि तेषु । तथा चलन्तः - विचरन्तो ये चकोराश्च सारसाश्च तेषां यो रवः - कूजितं तेन रमणीयानि - रम्याणि यानि तानि तथा तेषु । पुनः किम्भूतेषु वनेषु ? नर्मदोर्मिभिः-नर्मदावीचिभिर्मन्दाः- तत्संघट्टनादनल्पवेगा ये अनिलाःवायवस्तैरन्दोलिताः-कम्पिता लतापल्लवा येषु तानि तथा तेषु । एतेन वातानां शैत्यं मान्द्यं च दर्शितं, अतएव च ते अध्वश्रमापनयने हेतवोऽपि भवन्तीति । ३६४ राजापि श्रुतशीलेन दर्शितांस्तास्तांनुद्देशानवलोक्य चिन्तितवान् । कृतक्रीडाः क्रोडैर्मदकलकुरङ्गीक्षितमृगाः १, परिभ्राम्यद्भृङ्गाः परभृतकुलाक्रान्ततरवः । वनोद्देशाः पौष्पैः सुरभितदिगन्ताः परिमलैर्न चेतः कस्यैते विलसितविकारं विदधति ॥ ४८ ॥ राजापि नलः श्रुतशीलेन मन्त्रिणा दर्शितान् अवलोकितान् तांस्तानुद्देशान्- प्रदेशान् अवलोक्य चिन्तितवान्-विचारितवान् । किं चिन्तितवान् इत्याह कृतेति । एते वनोद्देशाः - वनप्रदेशाः कस्य चेतः मनः विलसितः - उल्लसितो विकार:-विक्रिया यत्र ईदृशं न विदधति - न कुर्वन्ति, सर्वस्यापि मनः सविकारं कुर्वन्तीत्यर्थः । किम्भूता वनोद्देशाः ? क्रोडै: - वराहैः कृता क्रीडा - केलिर्यत्र ते तथाविधाः । तथा मदकलं-मदेन उन्मत्ततया कलं - मनोज्ञं सकामं यथा भवति तथा कुरङ्गीभि: ईक्षिता मृगा येषु ते तथाविधाः । तथा परितो भ्राम्यन्तः - सञ्चरन्तो भृङ्गा येषु ते तथाविधाः । तथा परभृतकुलेन' - पिकवृन्देन आक्रान्ताः - अध्यासितास्तरवो येषु ते तथाविधाः, तथा पौष्पै:पुष्पसम्बन्धिभिर्परिमलैः- आमोदैः सुरभिताः - सुवासिता दिगन्ताः - दिश एव येषु ते तथा विधा: । अत्र अन्तशब्दः स्वरूपार्थः । " अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः "। अवयवेऽपि" [२/१५९] इत्यनेकार्थः ॥ ४८ ॥ इतश्च वीचीनां निचयाः स्पृशन्ति जलदानुद्गन्धिसौगन्धिकानृत्यत्केकिकदम्बकानि विकसद्वीरुन्धि रोधांसि च । १. परिभृतकुलेन अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy