SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ३५८ हे देव ! इदञ्च - कुरेति वृत्तम् । प्रवरा - प्रकृष्टा मतिर्यस्य तस्य सम्बोधने हे प्रवरमत ! इह - नद्यां इदं च रोध:-तटं विलोक्य चिरं चिरकालं को नरो न रमते न क्रीडति ? अपितु सर्वोऽपि क्रीडत्येव । किम्भूतं रोध: ? कुरराणां - उत्क्रोशाभिधपक्षिणां भरं - अतिशयं सहते इति कुररभरसहं । तथा सह हंसमालया वर्तत इति सहंसमालं । तथा मुदिता:- हृष्टा मयूराश्च चकोराश्च चक्रवाकाश्च यत्र तत् । यतः सुष्ठु रुचिरं मनोहरम् ॥ ४० ॥ इतश्च बककृतनिनदं नदं न दम्भात्कृतसवनं सवनं भजन्त एते । निरुपमविभवं भवं स्मरन्तः प्रशमधना मुनयो नयोपपन्नाः ॥ ४१ ॥ इतश्च - अस्मिन्प्रदेशे हे देव ! दमयन्ती - कथा - चम्पू: ति वृत्तम् । प्रशम एव धनं येषां ते प्रशमधना, एते मुनयः निरुपमविभवं- अनुपमसामर्थ्यं भवं - ईश्वरं स्मरन्तः - ध्यायन्तः ईदृशं नदं जलाश्रयविशेषं भजन्ते सेवन्ते । किम्भूता: ? नयेन - न्यायेन उपपन्ना: - युक्तां नयोपपन्नाः । किम्भूतं नदम् ? बकैः कृतो निनद:- शब्दो यत्र तं । तथा न दम्भात्-न कपटात्, अपितु धर्मवासनया कृतं सवनं स्नानं यत्र तं । तथा वनै सह युक्तं सवनम् ॥ ४२ ॥ विधूतपाप्मानः खल्वमी महानुभावाः । तथाहि मुहुरधिवसतां सतां मुनीनामपविपदां विपदाङ्कपङ्कभाञ्जि । तटनिकटवनानि नर्मदायाः कथमिभवन्ति भवन्ति कल्मषाणि ॥ ४२ ॥ खलु निश्चितं अमी महानुभावा: - मुनयो विधूतः - अपाकृतः पाप्मा - पापं यैस्ते विधूतपाप्मानः । तथाहि - तदेव दर्शयति मुहुरिति वृत्तम् । नर्मदायास्तटनिकटवनानि -तीरसमीपकाननानि कर्मभूतानि मुहु:वारम्वारं अधिवसतां’-आश्रयतां सतां - विदुषां मुनीनां कथं कल्मषाणि - पापानि भवन्ति ? अपितु न भवन्त्येवेत्यर्थः । किम्भूतानि तटनिकटवनानि ? इभवन्ति - गजवन्ति तथा वीना १. जलाधारविशेषं अनू. । २. अधिकवसतां अनू. । Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy