________________
पञ्चम उच्छ्वासः
उन्मीलन्नवनीलनीरजधिया पक्ष्मान्तरे नेत्रयो
र्यासां हस्ततलाहता? अपि परिभ्राम्यन्ति भृङ्गाङ्गनाः ॥ ३८ ॥
हे देव ! इतोऽपि - अस्मिन्नपि प्रदेशे -
I
पश्येति । वृत्तम् । हे देव ! त्वं पश्य, एताः पुलिन्दस्त्रियः - शबरनार्यः अस्याः पयसि स्वैरं-स्वेच्छया क्रीडन्ति - रमन्ते । किम्भूते पयसि ? अब्जविकासं भजतीति यत्तत्तस्मिन् विकसितपङ्कजवति । किम्भूताः पुलिन्दस्त्रियः । करिकुम्भसन्निभं - हस्तिमस्तकसदृशं यत् कुचद्वन्द्वंपयोधरद्वन्द्वं तेन उल्लसन्तः - उच्छलन्तो वीचयो याभ्यस्ताः । यासां - पुलिन्दवनितानां नेत्रयोः पक्ष्मान्तरे-नेत्ररोम्णां मध्ये भृङ्गागना:- भ्रमर्यः हस्ततलेन आहता अपि-अपनीता अपि उन्मीलत्विकसन्नवं-नूतनं नीलवर्णं यन्नीरजं पद्मं तस्य धिया-बुद्ध्या परितः समन्तात् भ्राम्यन्ति-सञ्चरन्ति । नेत्ररोम्णां नीलत्वत् कुवलयमिदमिति बुद्ध्या मुग्धत्वात् भृङ्गागना: परिभ्रमन्तीति भावः ॥ ३८ ॥
इतोऽप्यवलोकयतु देवः
बालोन्मीलत्कुवलयवनं विस्तरद्गन्धरुद्धभ्राम्यद्भृङ्गैरनुकृतपयःपूर्णमेघान्धकारम् । हर्षात्पश्यत्ययमतितरां तीरचारी मयूरो,
मुग्धः पार्श्वे भ्रमति नितरां चक्रवच्चक्रवाकः ॥ ३९ ॥
३५७
देवः-नृपः इतोपि-अस्मिन्नपि प्रदेशे अवलोकयतु ।
बालेति वृत्तम् । अयं तीरचारी - तटसञ्चरिष्णुर्मयूर : अतितरां - अतिशयेन हर्षात्-प्रमोदात् बालं-नवं उन्मीलद्-विकसद् यत् कुवलयवनं - नीलोत्पलखण्डं तत्पश्यतु' - अवलोकयतु । किम्भूतं वनम् ? विस्तरता - प्रसरता गन्धेन - सौरभ्येण रुद्धा - अन्यत्रगमनान्निषिद्धा अतएव भ्राम्यन्तो ये भृङ्गास्तैः कृत्वा अनुकृत:-तुलितः पयः पूर्णमेघोन्धकारश्च येन तत् । मयूरचक्राभ्यामित्यवगम्यन्ते सभृङ्गमिदं वनं न, किन्तु पयःपूर्णो मेघोऽन्धकारश्चेति । तथा तीरचारी मुग्धश्चक्रवाको नितरां भृशं चक्रवत्-कुलालोपकरणवत् पार्श्वे - वनस्य समीपे भ्रमति । मेघाद्धि मयूरस्य हर्षो भवति, अन्धकाराच्य रात्रिशंकया चक्रवाकस्य भ्रमः ॥ ३९ ॥
इदं च
कुररभरसहं सहंसमालं मुदितमयूरचकोरचक्रवाकम् ।
क इह सुरुचिरं चिरं विलोक्य प्रवरमते रमते नरो न रोधः ॥ ४० ॥
१. पश्यति अनू. । २. अवलोकयति अनू. । ३. अवगम्यते अनू. ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org