SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ३५६ दमयन्ती-कथा-चम्पू: उत्प्रेक्ष्यते, स्वः-स्वर्गस्य सोपानपरम्परा इव । मन्ये, अमी कल्लोला न भवन्ति किन्तु स्वर्गमारुह्यतां' एता आरोहणपरिपाट्य इति । किं कुर्वन्तः कल्लोलाः ? मज्जन्तः-स्नानं कुर्वन्तो ये कुञ्जरास्तेषां कुम्भमण्डलात् गलत्-क्षरद् यद् दानाम्बुः-मदजलं तस्य सौरभात्सौगन्ध्यात् भ्राम्यन्त्यः-उपरि सञ्चरन्त्यो या भृङ्गाकुलावल्यः-मधुकरवृन्दपंक्तयो भ्राम्यद्भुङ्ग कुलावल्यस्ता एव कुवलयश्रेणी:-नीलोत्पलराजीः समा बिभ्रतः-दधतः, भृङ्गकुलानां कुवलयान्युपमानं । तथा कलिकालस्य-कलियुगस्य कल्मषं-पापं मुष्णन्ति स्नानादपनयन्तीति कलिकालकल्मषमुषः ॥ ३६ ।। इतश्चास्यास्तीरेषु' अंसत्रंसिजलार्द्रजर्जरजटाजूटैर्मनाङमन्थरास्तिम्यत्तारवतन्तुनिर्मितकुथत्कौपीनमात्रच्छदाः। शीतोत्कण्टकितास्थिशेषतनवः स्नात्वोत्तरन्तः शनैरेते पश्य पतन्ति पिच्छिलशिलाजाले जरत्तापसाः ॥ ३७ ॥ हे देव ! इतश्च-अस्मिन्प्रदेशे अस्या:-नद्यास्तीरेषु-तटेषु अंसेति वृत्तम् । पश्य-अवलोक्य एते जरत्तापसा: जरन्त:-वृद्धाश्च ते तापसाश्चतपस्विनो जरत्तापसाः पिच्छिलं-मसृणं कर्दमिलं यत् शिलाजालं-शिलावृन्दं तस्मिन् पतन्तिस्खलन्ति । किम्भूताः ? अंसयोः-स्कन्धयोः स्रंसिनः-पतनशीला जला:-जलक्लिन्ना जर्जरा:धवलीभूता ये जटाजूटरा:-जटाबन्धास्तैर्मनाक्-ईषन् मन्थरा:-अलसगतयः, आर्द्रजटानां भारोद्वहनात् मन्दं मदं गच्छन्त इत्यर्थः । तथा तरुषु भवास्तारवास्ते च ते तन्तवश्च तारवतन्तवस्तैनिमितं -रचितं कुथत्-शटितं यत्कौपीनं-कक्षापट: तिम्यत्-आर्दीभवद् यत्तारवतन्तुनिर्मितकुथत्कौपीनं तिम्यत्तारवतन्तुनिर्मितकुथत्कौपीनं तन्मात्रमेव तदेव छदःआवरणं येषां ते । तथा शीतेन-हिमवायुना उत्कण्टकिता-ऊर्ध्वं पुलकिता अस्थिशेषा तनुर्येषां ते, तथाविधा, अजस्रं तपः करणादस्थिशेषत्वं । तथा शनैः स्नात्वा स्नानं विधाय उत्तरन्तःतटं प्रति गच्छन्तः पश्य । इत्यत्र वाक्यार्थस्यैव कर्मत्वं पश्य मृगो धावतीत्यादिवत् ॥३७|| इतोऽपिपश्यैताः करिकुम्भसंनिभकुचद्वन्द्वोल्लसद्वीचयः, - क्रीडन्त्यब्जविकासभाजि२ पयसि स्वैरं पुलिन्दस्त्रियः । १. स्वर्गमारुहतां अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy