SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः एवंविधाः मन्थरमरुता - मन्दानिलेन लोलन्त: - चलन्तो लतामण्डपा यासु ताः ॥ ३८ ॥ इतश्च पश्यतु देव: एषा सा विन्ध्यमध्यस्थल 'विपुलशिलोत्सङ्गरङ्गत्तरङ्गाः, सम्भोगश्रान्ततीराश्रयशबरवधूशर्मदा नर्मदा च । यस्याः सान्द्रद्रुमालीललिततलमिलत्सुन्दरीसंनिरुद्धैः, सिद्धैः सेव्यन्त एते मृगमृदितदलत्कन्दलाः कूलकच्छा: १ ॥ ३५ ॥ इतश्च-अस्मिन् देशे देव:-नृपः पश्यतु एषेति । सा एषा नर्मदा वर्तते । किम्भूता ? विन्ध्यमध्यस्थले विपुलाः - विशाला ये शिलोत्सङ्गाः-शिलाक्रोडास्तेषु रङ्गन्तः - विलसन्तस्तरङ्गाः-वीचयो यस्याः सा । तथा सम्भोगेन-सुरतेन श्रान्ता: - खिन्नास्तथा तीरं - तटमाश्रयन्ते यास्तास्तीराश्रयाः, यद्वा तीरे आश्रयः-गृहं यासां तास्तीराश्रयाः, पश्चात् कर्मधारयः । एवंविधाः याः शबरवध्वस्तासां शर्म ददातीति सम्भोगश्रान्ततीराश्रयशबरवधूशर्मदा । सेति का ? यस्या:- नर्मदाया एते कूलकच्छा:-तटानुपप्रायदेशाः सिद्धैः - देवविशेषैः सेव्यते । किम्भूतैः सिद्धैः । सान्द्रानिविडा या द्रुमाली-वृक्षपंक्तिस्तस्या ललितं - मनोहरं यत्तलं - अधोभागस्तस्मिन् मिलन्त्यःपुञ्जीभवन्त्यो याः सुन्दर्यस्ताभिः सन्निरुद्धैः - आश्रितैः, स्त्रीभिः सहितैरित्यर्थः । किम्भूताः कूलकच्छा: ? मृगैर्मृदिता - दलिता दलन्तः - विकसन्तः कन्दला:- प्ररोहा येषु ते तथाविधाः । "कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि य" इत्यनेकार्थः [२/६३ ] || ३५ ॥ अपि च । अन्तरेऽप्यस्या: .६ मज्जत्कुञ्जरकुम्भमण्डलगलद्दानाम्बुनः सौरभाद्भ्राभ्यद्भृङ्गकुलावली" कुवलय श्रेणीः समाबिभ्रतः । कल्लोलाः कलिकालकल्मषमुषः प्रोल्लीललीलाकृत: स्वः सोपानपरम्परा इव वियद्वीथीमलंकुर्वते ॥ ३६ ॥ हे देव ! अस्या:-नर्मदाया अन्तरेपि - मध्येपि १. सेव्यन्ते अनू. । ३५५ मज्जदिति । कल्लोला वियद्वीथीं- नभोमार्गं अलङ् कुर्वते - शोभयन्ति । किम्भूता: ? प्रकर्षेण ऊर्ध्वं लोलत्वलीलां - चञ्चलत्वविलासं कुर्वत इति प्रोल्लोललीलाकृत:-ऊर्ध्वमुच्छलन्त इत्यर्थः । लोलशब्दोऽत्र भावप्रधानो लवणादिशब्दवत्, अतएव Jain Education International " For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy