SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ३५४ दमयन्ती-कथा-चम्पू: श्रुतशीलस्तु तुङ्गशृङ्गरङ्गत्सारङ्गाङ्गनासु नक्षत्रासन्नाकाशावकाशविशदवंशजालजटिलासु चलच्चित्रचित्रककरिकलभकदम्बकसंचारशबलासु हारिहरिताङ्कुररमणीयासु वनस्थलीषु निक्षिप्तचक्षुषमवलोक्य राजानमिदमवादीत् । श्रुतशीलस्तु एवंविधासु वनस्थलीषु निक्षिप्ते-निहिते चक्षुषी येन तथाविधं तत्र दत्तदृष्टिं राजानं-नलमवलोक्य इदमवादीत् । किम्भूतासु वनस्थलीषु ? तुङ्गशृङ्गेषु-उच्चगिरिशिखरेषु रङ्गन्त्यः-क्रीडन्त्यः सारङ्गाङ्गनाः- मृग्यो यासु तास्तासु । तथा नक्षत्राणामासन्नः-निकटवर्ती य आकाशावकाशः-नभोऽन्तरं तेन विशदं-सप्रकाशं यवंशजालं-वेणुवृन्दं तेन जटिलासु-व्याप्तासु “एतावता वंशानां नक्षत्राणि यावदुच्चत्वं आख्यातम्' । “जट झट कट संघाते" [पा. धा. ३०५-३०७] औणादिक इल्लप्रत्ययः । तथा चलन्तः-विचरन्तश्चित्रा:-आश्चर्यकारिणो ये चित्रकाश्च- द्वीपिनः करिणश्च-गजाः कलभाश्च-करिपोतास्तेषां यत्कदम्बकं-वृन्दं तस्य सञ्चारेण-प्रवर्तनेन शबलाःकर्बुरवर्णास्तासु । तथा हारिणः-मनोहरा ये हरिताङ्कराः-नीलप्ररोहास्तै रमणीयासु-रम्यासु । अथ श्रुतशीलो यदुवाच तदाह'देव'माद्यद्दन्तिकपोलपालिविगलद्दानाम्बुसिक्तद्रुमाः, क्रीडत्क्रोडकुलार्धचर्वितपतन्मुस्तारसामोदिताः । अन्तःसुस्थितपान्थमन्थरमरुल्लोलल्लतामण्डपाः, कस्यैता न हरन्ति हन्त हृदयं विन्ध्यस्थलीभूमयः ॥ ३४ ॥ हे देव !-नृप ! माद्यदिति । हन्त इति प्रमोदे, एता-इमा विन्ध्यस्थलीभूमयः कस्य हृदयं-चेतो न हरंति-न वशीकुर्वन्ति । "हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः । निश्चये च प्रमोदे च" इत्यनेकार्थः [परि. ३३.] । किम्भूताः ? माद्यन्तः-दृप्यन्तो ये दन्तिन:गजास्तेषां कपोलपालिभ्यः-गण्डप्रान्तेभ्यो विगलत्-क्षरत् यद्दानाम्बु:-मदजलं तेन सिक्ताःआर्द्राकृता द्रुमा यासां ताः । तथा क्रीडत्-खेलत् यत क्रोडकुलं-वराहवृन्दं तेन अर्धचर्विताः-अर्धास्वादिताः पतन्त्यो या मुस्ता:-कन्दविशेषास्तासां रसेन-निर्यासेन आमोदिताः-सुगन्धिताः । तथा अन्तः-मध्ये सुस्थिता:-सुखेनावस्थिताः पान्था येषां १. चापि अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy