SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः स्पृशन्तीति जङ्घजघनस्पृशः । तथा वक्ष:स्थल्यां यल्लोलनं - विलसनं तत्र लम्पटा:लालसाः । तथा ग्रीवाया:- कन्धरायाः ग्रहणे - स्वीकारे आग्रह:- हठो विद्यते यासां ताः ग्रीवाग्रहणग्रहिण्यः । तथा वस्त्रेषु प्रसभं - हठात् लगन्त्यः । पुनः किम्भूता, धूलय: ? नखा:अश्वादीनां खुराः पदं - पादविन्यासस्तेषां अभिघातात् ' - प्रहारदानात् उद्यता:- उत्थिताः । किम्भूता निस्त्रपाः स्त्रियः ? नखाभिघाते - नखक्षते पदयोश्चाभिघाते उद्यताः-सोद्यमाः । तथा सैनिकानां चमूचराणां चिबुकं च- असिकाधः कपोलो च- गण्डौ अधरौ च- ओष्ठौ, चक्षुषी च-नेत्रे तानि चुम्बन्त्यः, निस्त्रपाः स्त्रियोप्येवंविधा एव भवन्ति । धूलिपक्षे, चुम्बन्त्य इत्यत्र चुम्बनं - वक्त्रसंयोगः स चात्रानुपपन्न इति, तस्य स्पर्शनमात्रं लक्षयति, तेन चुम्बन्त्य:स्पृशन्त्य इति चुम्बितपदमत्यन्ततिरस्कृतवाच्यम् । तथा चोक्तं काव्यप्रकाशे" एतच्चकास्ति च रवेर्नवबन्धुजीव- पुष्पच्छदाममुदयाचलचुम्बिबिम्बम् ।" [५/१५] इति, स्त्रीपक्षे तु, चुम्बनं धात्वर्थपरं व्याख्येयम् । तथा अतिप्रसरेण - अतिप्रसक्त्या शिरोवलग्ना:-शिरसि लग्नाः, स्त्रियोप्येवंविधा एव स्युः । तथा बलात् - सैन्यात् प्रवृद्धाः प्रबलाः, स्त्रियश्च प्रवृद्धवीर्याः । तथा धूलयो वियत्-नभ आवृण्वन्तीति वियदावरणा:नभश्छादिन्यः । विपूर्वस्येणः शतृङावियदिति, स्त्रियश्च वियच्छवस्त्रा: । तथा धूलय आसन्नवननिकुञ्जेषु उच्चैः- अतिशयेन अतिप्रसङ्गं - अतिव्याप्तिं चक्रुः । पक्षे स्त्रियःआसन्नकाननकुञ्जेषु रतिप्रसङ्ग - सुरतप्रसङ्गं कुर्वन्ति । तथा पुरःप्रस्थितस्य नृपस्य अग्रे पदातय: - पादचारिण; समुल्ललन्तः - समुच्छलन्तो विचेरु:-चलन्ति स्म । किं कुर्वन्तः पदातयः कोटिशः-अनेकधा कूजन्तः शब्दायमानाः। तथा कोदण्डेन - धनुषा मण्डलाग्रेण च - असिना व्यग्राः - व्याकुला रुद्धा: पाणयो येषां ते । तथा अधिकं - अतिशयेन रणकर्मणि-संग्रामक्रियायां कुशलाः- दक्षाः । के इव ? पाणिनीया इव - पाणिनिशिष्या इव । ते किम्भूताः ? कर्मणि कारके तयोः कुशलाः । तथा वल्गनेकूर्दने पटवः-चतुराः । तथा लाम्पट्येन - तदीयधनादिवस्तुग्रहणलम्पटतया उल्लुण्ठिताःविध्वस्ता अरिपुर:-अरिनगर्यो यैस्ते तथाविधाः । तत्र च व्यतिकरे तत्र च व्यतिकरे - तस्मिन्नवसरे मन्दं मन्दरमन्दिरेषु शयितानुन्निद्रयन्किनरान्मेरोर्मस्तककन्दरे' प्रतिरवानुत्थापयन्नुल्बणः । १. अभिघातास्तत् अनू. । २. अधिकरणकर्मणी अनू. । Jain Education International ३५१ For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy