SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ३५२ दमयन्ती - कथा - चम्पूः आध्वं धावत यात मुञ्चत पुनः १ पन्थानमेवंविधस्त्रैलोक्यं बधिरीचकार वहतः २ सैन्यस्य कोलाहलः ॥ ३२ ॥ मन्दमिति वृत्तम्। भो सैनिका: ! यूयं प्राध्वं-आनुकूल्येन धावत- शीघ्रं गच्छत । “धावुञ् जवे" [ ] । तथा यातः - इतः स्थानादन्यत्र गच्छत । तथा पुर:-अग्रतः पन्थानं-मार्गं मुञ्चत । एवंविधः-एवंप्रकारो वहतः - गच्छतः सैन्यस्य कोलाहलः - कलकलस्त्रैलोक्यं - त्रिभुवनं बधिरीचकार-श्रवणापटु अकार्षीत् । किम्भूतः कोलाहलः ? मन्दं शनै: मंदरमन्दिरेषु- मेरुसदनेषु शयितान्-सुप्तान् किन्नरान् उन्निद्रयन्-जागरयन् । यतः पुनः किं कुर्वन् ? मेरोर्मस्तके कन्दरेशिखरदर्यां प्रतिरवान्-प्रतिशब्दान् उत्थापयन् - उद्भावयन् । तथा उल्वणः- उत्कटः । प्राध्वं नम्र्मानुकूल्ययोः १", [अने. परि. ४७] प्राध्वं उपविशत वा, "आसू उपवेशने २" [ ] आशिषि मध्यमपुरुषबहुत्वे भाष्यकारमतेन सलोपे आध्वमिति रूपम् ।। ३२ ।। एवमसौ क्रीडितानेकपामरान्गिरीन्ग्रामांश्चरे बहुतरङ्गोपशोभिताः सरितः सीम्नश्च व्यूढपत्त्ररथान्पथ: पादपांश्च लङ्घयन्, सालसहिताः पुरीर्नारीश्च सेवमानः, पच्यमानगोधूमश्यामला: क्षेत्रभुवो भिल्लपल्लीश्च' परिहरन्, विधवाः शत्रुसीमन्तिनीरटवीश्चातिक्रामन् , परिवारीणि बन्धुकुलानि सरांसि च बहुमानयन्, नातिचिरेण रविरथतुरंगमपरिहृतविषमशिरः शिखरसहस्रम - मरगणगन्धर्वसिद्धरुद्धस्कन्धमध्यं विन्ध्याचलमनुससार । एवं अमुना प्रकारेण असौ - नल इदं इदं कुर्वन् नातिचिरेण - स्तोकेनैव कालेन विन्ध्याचलं-विन्ध्याद्रिं अनुलक्षीकृत्य ससार - चचाल । किं कुर्वन् । लङ्घयन्-अतिक्रामन् । कान् ? गिरीन् ग्रामांश्च । किम्भूतान् गिरीन् ? क्रीडिता: - खेलिताः अनेकपा:-गजा अमराश्चदेवा येषु तान् । किम्भूतान् ग्रामान् ? क्रीडिता अनेके - बहवः पामरा:- ग्राम्या येषु तान् । तथा सरित:-नदीः सीम्नश्च - ग्रामावधीन् लंघयन् । किम्भूताः सरित: ? बहुभिस्तरङ्गैरुप - शोभिताः-अलङ्कृताः । किम्भूताः सीम्नः ? बहुतरं यथा भवति तथा गोपैः-गोपालैः शोभिताः । तथा पथ:-मार्गान् पादपांश्च- तरून् लंघयन् । किम्भूतान् पथः ३ । विशेषेण ऊढानि-प्रवृत्तानि पत्राणि - वाहनानि हस्त्यश्वादीनि रथाश्च येषु ते तथाविधान् । किम्भूतान् पादपान् ? व्यूढा:-धारिता: पत्ररथा:-पक्षिणो यैस्ते तथाविधान् । तथा एवंविधाः पुरी: नारीश्च वनिताः सेवमान:- भजमानः । किम्भूताः पुरी: ? सालेन-प्रकारेण सहिताः । किम्भूता नारी: ? सालसाः- आलस्योपेताः हिताश्च - अनुकूलाः पश्चात् कर्मधारयः । अलसशब्दोऽत्र भावप्रधान: लवणादिशब्दवत् । तथा एवंविधा: क्षेत्रभुव:- केदारभूमी : भिल्लपल्लीश्च-शबर १. नर्म्मानुकूलयो: अनू. । २. आस् अनू. । ३. तरून् अनू. । For Personal & Private Use Only Jain Education International www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy