________________
३५०
दमयन्ती-कथा-चम्पू:
अपि चआसीत्पिण्डितपाण्डुपङ्कजवनं श्वेतातपत्रैः क्वचिन्मायूरातपवारणैः क्वचिदभूदुन्नालनीलोत्पलम् । उन्मेषं क्वचिदूर्ध्वधूलिपटलैस्तस्य प्रयाणेऽभव- । त्प्रोद्वीचि क्वचिदम्बरं सर इव प्रेवत्पताकापटैः ॥ ३१ ॥ अपि च-पुनः
आसीदिति । तस्य-नलस्य प्रयाणे-प्रस्थाने सर इव-तडागमिव अम्बरं-आकाशमभवत्-जातम् । सरोधर्मान् नभस्यवतारयन्नाह-क्वचित्-प्रदेशे अम्बरं श्वेतातपत्रैः-धवलच्छत्रैः कृत्वा पिण्डितानां-मिलितानां पाण्डूनां-सितानां पङ्कजानां वनं यत्र ईदृशं आसीत् । मन्ये, अमूनि सितातपत्राणि न भवन्ति किन्तु पिण्डितसिताब्जवनमिति । तथा क्वचिन्नभ: मायूरातपवारणैः-श्रीकरिभिः कृत्वा उन्नालानि-ऊर्ध्वकाण्डानि नीलोत्पलानि यत्र ईदृशमासीत् । तथा क्वचित्प्रदेशे नभः ऊर्ध्वं-नभोगामीनि यानि धूलीपटलानि-रेणुसमूहास्ते कृत्वा उन्मेषं-उन्नतमेघं जातम् । तथा क्वचित्प्रदेशे नभः प्रेङ्खन्तः वायुवशात् कम्पमाना ये पताकापटा:-ध्वजवस्त्राणि तैः कृत्वा प्रकृष्टाः ऊर्ध्वं वीचयः-कल्लोला यत्र तत् प्रोद्वीचि आसीत् । यथा सरःपिण्डितपाण्डुपङ्कजवनं भवति, तथा उन्नालनीलोत्पलं च भवेत्, तथा उन्मेघमपि । प्राच्यदेशमहासरस्सु मेघा अम्भो ग्रहीतुं उन्नमन्ति इति प्रसिद्ध्या उन्मेषत्वमुक्तम् । तथा उदीच्यपि भवेत्तथाम्बरमेभिरितिः ॥ ३१ ॥
जाताश्च जवाजघनस्पृशो, वक्षःस्थलीलोलनलम्पटाः, ग्रीवाग्रहणग्रहिण्यः, प्रसभं लगन्त्यो वस्त्रेषु, निस्त्रपाः स्त्रिय इव, नखपदाभिघातोद्यताः, चुम्बन्त्यश्चिबुककपोलाधरचयूंषि सैनिकानाम्, अतिप्रसरेण शिरोऽवलग्नाः, प्रबला धूलयो, वियदावरणाश्च चक्रुरुच्चैरतिप्रसङ्गमासन्नवननिकुञ्जेषु ।
कूजन्तश्च कोटिशः कोदण्डमण्डलाग्रव्यग्रपाणयः, पाणिनीया इवाधिकरणकर्मकुशलाः समुल्ललन्तो विचेरुर्वल्गनपटवो लाम्पट्योल्लुण्ठितारिपुरः पुरः पदातयः ।
धूलयो निस्त्रपा:-निर्लज्जाः स्त्रिय इव जाताः । उभयोऽपि कीदृश्यः ? जङघाजघने
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org