________________
पञ्चम उच्छ्वासः
धरणिमण्डलं-भूतलं यैस्ते । तथा कान्ता - मनोज्ञा या काञ्चनरचना - मुखादिविभूषायै सौवर्णभूषणपरिधापनं तया रोचिष्णवः - शोभनशीलाः । तथा चक्रवर्तिनः- सार्वभौमस्य वाहनाय - धारणाय, यद्वा चक्रवर्तिनो वाहनानीव - पत्राणीव उचिता: - योग्याः प्रधाना इत्यर्थः । तथा अपर्यन्तां - विशाला हृदयादयः पर्यायाः- धर्म्मा येषां ते यद्वा अपर्यन्तः - दीर्घः पर्यायः - निर्माणं येषां ते, अत्युच्चा इत्यर्थः । यदनेकार्थ :- "पर्यायोऽवसरे क्रमे निर्माणे द्रव्यधर्मे च”[३/५२५] इति । तथा शृङ्गारिताश्च विभूषिता इभेन्द्राः - महाहस्तिनो भुवं कम्पयाम्बभूवुः - कम्पयन्तिस्म । किम्भूता इभेन्द्राः ? चलती - चलनवशादेजमाने चारुणी - मनोज्ञे चामरे यत्र । तथा अवचूलाभ्यां-अधोमुखकुर्चकाभ्यां अलङ्कृतः - मण्डितः पश्चात्कर्मधारयः ईदृग्विधो यः कपोलभित्तिभाग:-गण्डस्थलं तत्र मिलिताः - समवेता ये भृङ्गास्तेषां सङ्गीतेन-झङ्कारारवेण मुखरितं - वाचालितं मुखमण्डलं येषां ते । तथा कथमपि महता कष्टेन आधोरणेन - हस्तिपकेन निरुध्यमानं-निवार्यमाणं शौर्यविकारस्य - मदवशात् गमनचाञ्चल्यस्य विस्फुरणं-व्यापारो येषां ते, तथा स्फुरद्-दीप्यमानं कुम्भभित्तौ सिन्दूरं - नागजं येषां ते तथा दूरे अपसारिता:अपनीताः स्यन्दनाः-रथा येभ्यस्ते । तथा स्यन्दमानः-क्षरन् अमन्दः - अनल्पो यो मदः-दानं तेन कर्दमिता–पङ्किलीकृता मेदिनी - भूर्यैस्ते, बहुव्रीहौ कः । किम्भूतां भुवम् ? भूरिभारेणबहुवीवधेन भुग्नं-१ कुब्जीकृतं ? अङ्गं शरीरं यस्य ईदृशो यः पन्नगः - शेषस्तस्य यच्छिरः- मूर्धा तदेव शिथिल:-अदृढ: अवष्टम्भ:- आधारो यस्याः सा तां भूरिभारमसहमानेन शेषेण वपुर्वक्रीकृतं तेन शिरोऽपि मनाग् निम्नीभूतं ततो धरावष्टम्भभूतस्य शेषशिरसः शिथिलत्वम् ।
किंबहुना । तत्रावसरे
किम्बहुना - किम्बहूक्तेन, तत्रावसरे - सेनायाः प्रस्थानसमये
पूर्वापरपयोराशिसीमासंक्रान्तसैनिके ।
तस्मिन्सस्मार भूर्भाराद्वराहवपुषो हरेः ॥ ३० ॥
पूर्वेति । पूर्वापरपयोराश्योः सीमानं - पर्यन्तं यावत् संक्रान्ता-चलिताः सैनिकाःचमूचरा यस्य स तस्मिन् पूर्वापरसागरावधिसंक्रान्तचमूचरे तस्मिन् - नले सतिभूःमेदिनीभारात्-हेतोः वराहवपुषः - वराहावतारस्य हरेः - विष्णोः सस्मार - स्मृतवती । यद्ययं वराहवपुर्हरिरधुना भविष्यत् तदा एनं भारं उदवक्ष्यत् मया तु वोढुं न शक्यते, इत्येवं वराहरूपधारिणं नारायणं स्मरति स्म । हरेरिति स्मृत्यर्थकर्मणि षष्ठी ॥ ३० ॥
१. भुग्नं रुग्नं अनू. । २. कुब्जीभूतं अनू. ।
Jain Education International
३४९
For Personal & Private Use Only
www.jalnelibrary.org