SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः अथ नलोऽप्यामन्त्रितस्तेन ब्राह्मणेन रणरणकेन च, प्रेरितो मन्त्रिणा मदनेन च, सेनयोत्कण्ठया च परिवृतः, तत्कालमेव विदर्भमण्डलाभिमुखमुदचलत् । चलिते च चतुरङ्गबल र चलनचूर्णितशिलोच्चयचक्रवाले चक्रिचक्रचङंक्रमणचीत्कारबधिरितककुभि विषमवैरिवृन्दवनवैद्युतानले नले, चलन्तश्चटुलतरचरणप्रहाररणितधरणिमण्डलाः कान्तकाञ्चनरचनारोचिष्णवश्चकासां चक्रुश्चक्रवर्त्तिवाहनोचिताः साश्चर्यमपर्यन्तपर्यायाः ४ पर्याणितास्तुरङ्गाः शृङ्गारिताश्च चलच्चारुचामरावचूलवालंकृत" कपोलभित्तिभाग' मिलितभृङ्गसंगीतमुखरितमुखमण्डलाः कथमप्याधरोरण७ निरुध्यमानशौर्यविकारविस्फुरणाः स्फुरत्कुम्भभित्तिसिन्दूरा दूरापसारितस्यन्दनाः स्यन्दमानामन्दमदकर्दमितमेदिनीकाः कम्पयांबभूवुर्भुवं भूरिभारभुग्नाङ्गपन्नगशिर: 'शिथिलवष्टम्भामिभेन्द्राः । अथ - अनन्तरं नलोपि तत्कालमेव - तत्समयमेव विदर्भमण्डलाभिमुखं - विदर्भदेशं प्रति उचलत् - प्रतस्थे । किम्भूतेन ! तेन ब्राह्मणेन आमन्त्रितः, तथा रणरणकेन च उत्कण्ठया च आमन्त्रितः - आहूतः तद्दिशायै उत्कण्ठापि जातेत्यर्थः । तथा मन्त्रिणा - श्रुतशीलेन प्रेरितः यथा - स्वामिन् ! तत्र गम्यतामिति, मदनेन च - कामेन च प्रेरितः, मदनातुरो जात इत्यर्थः । तथा सेनया - चम्वा परिवृत: - परिकारितः तथा उत्कण्ठया चवाञ्छया परिवृत:-वेष्टितः, तस्यै वाञ्छा बभूव इत्यर्थः । ३४८ नले चलिते च सति चलन्तः - गच्छान्तः पर्याणिता:-पल्ययनितास्तुरङ्गाः साश्चर्यं - साद्भुतं यथाभवति तथा चकासाञ्चकुः शुशुभिरे । किम्भूते नले ? चतुरङ्गबलस्यहस्त्यश्वरथपदातिरूप'सेना यश्चलनेन - चंक्रमणेन चूर्णितं पिष्टं शिलोच्चयानां गिरीणां चक्रवालं-वृन्दं येन स तस्मिन् । एतावता सेनाबाहुल्यमुक्तम् । तथा चक्रिचक्रस्यस्यन्दनसमूहस्य यच्च॑क्रमणं - गमनं तस्मिन् यश्चीत्कारस्तेन बधिरिता: - २ शब्दान्तरश्रवणागोचरीकृताः ककुभः - दिशो येन स तस्मिन् । तथा विषमं - दुःसहं यद्वैरिवृन्दंप्रत्यर्थिसमूहस्तदेव वनं तत्र वैद्युतानल इव - वज्रवह्निरिव यः स तस्मिन् । यथा वैद्युतानलेन वनं भस्मसात् क्रियते तथा येन वैरिवृन्दनिहतमिति । एतावताऽस्य शौर्याधिक्यं वर्णितम् । किम्भूतास्तुरंगा: ? चटुलतरा :- अतिचञ्चला ये चरणप्रहारा :- खुराघातास्तै रणितं - शब्दितं १. रूपाया: अनू. । २. बधरिता: अनू. । ३. वैरिवृन्दं निहतमिति अनू. । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy