________________
पञ्चम उवासः
३४७
स्वयं च मृगयाव्यसनितया मृगयालुभिः सह
स्वयं य मृगया व्यसनं-आसक्तिविद्यते यस्यासौ मृगयाव्यसनी तद्भावस्तयाआखेटकरसिकतया मृगयालुभिः-आखेटकारिभिः सह
धीरं रङ्गन्तमारुह्य सारं रहसि वाजिनम् ।
हारं रम्यं गले बिभ्रत्स्वैरं रन्तुमगात्पुनः ॥ २९ ॥ धीरमिति । धीर-अत्रासं रङ्गन्तं-वल्गन्तं तथा रंहसि-वेगे सारं-उत्कृष्टं ईदृशं वाजिनं-अश्वमारुह्य-अधिष्ठाय गले-कण्ठे हारं-गुणं बिभ्रत्-बिभ्राणः स्वैरं-स्वच्छन्दं रन्तुंक्रीडितुं पुनरपि अगात्-अयात् ॥ २९ ।।
तदायुष्मति, स्वाभिसुते यथा मया तत्कथाप्रश्नानुराग उपलक्षितस्तथा निश्चितमचिरादयमेष्यति' इत्यभिधाय स ब्राह्मणः स्वगृह मगात् ।
___ तत् इत्युपसंहारे, हे आयुष्मति !-चिरञ्जीविनि ! स्वामिसुते !-भर्तृदुहित: ! यथा-येन प्रकारेण मया तस्य-नलस्य यः कथाप्रश्ने-भवद्वार्ताप्रच्छन्नेऽनुरागस्तत्कथाप्रश्नानुराग उपलक्षितः-ज्ञातस्तथा तेन प्रकारेण निश्चितमचिरात् अयं-नल एष्यतीति अभिधाय स ब्राह्मणः-सोमशर्मा स्वगृहमगात् ।
गते च तस्मिन्दमयन्ती 'श्लाध्यः स कः कालः, धन्यः स कतरो३ वासरः, सलक्षणा' सा का नाम वेला', यस्यामिन्दु दर्शनेनेव कुमुदमस्मच्चक्षुस्तदालोकनेन कम प्यानन्दमनुभविष्यति, इति चिन्तयन्ती कान्यपि दिनानि कयाप्यवस्थया अनैषीत् ।
___ गते च तस्मिन्-ब्राह्मणे दमयन्ती इति-अमुना प्रकारेण चिन्तयन्ती कान्यपि दिनानि कयापि-अनिर्वाच्यया अवस्श्या-दुःखावस्थानेन अनैषीत्-अतिवाहयामास । इतीति किम् ? स क: श्लाघ्य:-प्रशंस्यः कालः तथा स कतरो धन्यो वासरः ? तथा सा का सलक्षणालक्षणोपेता, 'शुभलक्षणेति' पाठान्तरं, नामेति कोमलामन्त्रणे वेला ? यस्यां-वेलायां अस्मच्चक्षुस्तस्य-नलस्य आलोकनेन-वीक्षणेन कमपि-अद्भुतं आनन्दं-आह्लादं अनुभविष्यति । केन ? किमिव ? इन्दुदर्शनेन कुमुदमिव । यथा चन्द्रदर्शनेन कुमुदं-कैरवं आह्लादमाप्नोति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org