SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः ३४६ कश्च भवानपि स्वप्रज्ञाप्राग्भारपराङ्मुखीकृतपुरंदरगुरुः' इति पर्यनुयुक्तः स पुनरुक्तवान् । ‘अयमसौ १० सौम्य ११, समस्तशास्त्रशस्त्रकोविदो १२ विदारितवैरी वैरसेनिर्नल: १३ । किमन्यदहमपि श्रुतशील १४ नामास्यैवाज्ञाकारी, इत्यभिधाय विश्रान्तवान् । नलोऽपि कृत्वा त्वदाश्रयास्तास्ताः प्रकटितप्रेमकन्दलाः कथाः, समर्थ्य च१५ स्वयंवरामन्त्रणमुत्सुकतया तत्कालमेवोड्डीयेवागन्तुमीहमानः संभाषितेन स्मिते १७ नालोकितेन १८ च माममृतवर्षेणेवाह्लादयन्ननिच्छन्तमपि प्रतिग्राह्य च बलादनर्थ्याणि स्वाङ्गाभरणानि चिरादेव १९ व्यसर्जयत् । आस्तामिति । तावत्-आदौ अन्यत् - अपरं च प्रष्टव्यान्तरं आस्तां - तिष्ठतु । अध्वन्य! कथय-कुतः-कस्माद्देशात् त्वं प्रष्टव्योसि, कुतः समागतोसीत्यर्थः । तथा कञ्च कियद्वा-कियत्प्रमाणं अद्यापि वर्त्म अतिक्रमितव्यं-उल्लंघितव्यमिति । एवं कथितं स्ववृत्तान्तं यत आगतं यद् यावदागन्तव्यमित्येवंरूपं येन स तथाविधेन मयाऽपि । इति पर्यनुयुक्तः - पृष्ठः सन् स पुनः श्रुतशील उक्तवान् । ईतीति किम् ? कोऽयमशेषमनुष्याणां समस्तमनुजानां मस्तकमणिरिव - चूडामणिरिव यः स प्रधानत्वात् । तथा च-पुन: स्वप्रज्ञाप्राग्मारेण - स्वबुद्धिवैभवेन पराङ्मुखीकृतः - निर्जितः पुरन्दरगुरुःबृहस्पतिर्येन ईदृग्विधो भवानपि कः । हे सौम्य ! - सुन्दर ! अयं - असौ समस्तानि यानि शास्त्राणि च-आगमाः शस्त्राणि च - आयुधानि तेषु कोविदः - दक्षः । तथा विदारिता- विध्वस्ता वैरिणो येन ईदृशो वीरसेनस्यापत्यं वैरसेनिः - नलः । किमन्यत् अहमपि श्रुतशीलनामा अस्यैव आज्ञाकारी - आदेशकारी इत्यभिधाय विश्रान्तवान्- विशश्राम, तूष्णीं बभाजेत्यर्थः । वैरसेनिरिति ‘“अत ईञ् " [पा. सू. ४/१ / ९५] इत्यपत्येर्थे इञ् । नलोऽपि त्वं दमयंत्येव आश्रयो यासां तास्त्वदाश्रयास्त्वामधिकृत्य प्रवृत्ता इत्यर्थः, तास्ताः प्रकटिता:- प्रकाशिताः प्रेमकन्दला:- स्नेहप्ररोहा यासु तास्तथाविधाः कथाः कृत्वा । च - पुनः स्वयम्वरामन्त्रणं समर्थ्य यदहमेष्यामीति अङ्गीकृत्य उत्सुकतया तत्कालं - तस्मिन् समये उड्डीय इव आगन्तुमीहमान: वाञ्छन्, तथा सम्भाषितेन - आलापितेन स्मितेनईषद्धास्येन आलोकितेन-वीक्षितेन च मां अमृतवर्षेण- पीयूषसेचनेनेव आह्लादयन्-आनन्दयन् सन्, अनिच्छन्तं-अनभिलषन्तमपि मां अनर्घ्याणि - बहुमूल्यानि स्वाङ्गाभरणानि - हारकेयूरादीनि बलाद्-हठात् प्रतिग्राह्य च - ग्राहयित्वा चिरादेव व्यसर्जयत् - मुमोच | १. सन् नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy