SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ पञ्चम उछासः ३४५ एतदाकर्ण्य मयाप्युक्तम्- 'महानुभाव, न केवलमियमन्यापि' क्वापि कापि' इति । इत्युक्तवन्तं मामवलोक्य भावितार्थः स पुनः युवा सस्मितमवोचत् । ___ एतत्युवोक्तं आकर्ण्य-श्रुत्वा श्लेषवक्रोक्त्या मयाप्युक्तं-हे महानुभाव ! न केवलमियं गोपालबालिका, अन्यापि कापि क्वापि नद्या इति विदर्भाभिधानाया नद्यास्तीरे कापि महनीयमहिमा गोपालस्य राज्ञो बालिका-सुता नलं-राजानं वरं-वरयितारं क्षेत्रीकृत्यआश्रयीकृत्य गाः-गिरः सम्यगुच्चारयति । "वर ईप्सायाम्" [पा. धा. १८५३] वर्यत इति वरः । क्षेत्रं सद्भूमिः । इति-अमुना प्रकारेण उक्तवन्तं मामवलोक्य भावितार्थ:-यदयं नलमधिकृत्यैवं वदतीति विदितपरमार्थः । स पुनर्युवा सस्मितं-सहास्यं यथा भवति तथा अवोचत् । 'इयं च सा चअनुभवतु चिराय चञ्चलाक्षीरसपरिणामफलानि गोपपुत्री । अपसरति महोद्यमेन यस्याः कथमपि संप्रति नैषधेऽनुरागः' ॥ २८ ॥ इयं च सा च अनुभवेति । गोपपुत्री-गोपालिका क्षीरस्य-दुग्धस्य सपरिणामानि-परिणतानि यानि फलानि-दधिघृतक्षैरेयीप्रभृतीनि तानि अनुभवतु-आस्वादयतु । किम्भूता ? चिरायचिरकालं चञ्चला-लोला गोचारणवशात् । यस्याः-गोप्याः सम्प्रत्पेषः-धेनुरागो महोद्यमेन हेतुना कथमपि-केनापि प्रकारेण न अपसरति-न निवर्तते । श्लेषे तु-गोपपुत्री-भूपपुत्री दमयन्तीलक्षणा चञ्चलाक्षी-चञ्चलनेत्रा शृङ्गारादिरसपरिपाकफलानि अनुभुक्तां, यस्याः साम्प्रतं महोद्यमे-महाप्रयत्नवति नैषधे-नलेऽनुरागः-प्रेमबन्धः कथमपि नाऽपसरति, तत्रैवानुरागः प्रवर्तत इत्यर्थः ॥ २८ ॥ । आस्तां च तावदन्यत् । अध्वन्य, कथय कुतः प्रष्टव्योऽसि, किंच कियद्वाद्यापि विितक्रमितव्यम्' इति । एवं कथितस्ववृत्तान्तेन मयापि 'कोऽयमशेषमनुष्यमस्तकमणिः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy