SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ३४४ दमयन्ती-कथा-चम्पू: परिकरः करेण कोदण्डमास्फालयंस्तद्वितीयो युवा तमेवोद्देशमायातवान् । आगत्य च बालनीलनलशाद्वलशालिनि शिलोच्चयस्थलीप्रदेशे कांचित्काञ्चनकुम्भकान्ति कुचकुम्भ लुठित कुसुममालिकामवलोकयन्निदमवादीत् । एवं-अमुना प्रकारेण उक्तः, सोऽपि युवा मनाक्-ईषत् मुग्धस्मितमेव-रम्यहास्यमेव उत्तरं कल्पितवान्-रचितवान् अब्रुवन्, ईषज्जहासेत्यर्थः ।। अथ-अनन्तरं, तद्वितीयः-स एव-नल एव द्वितीयो यस्य स तद्वितीयः-नलस्य सखा, यद्वा, तस्मात्-नलाद् द्वितीयः-अन्यस्तद्वितीयः, यद्वा स एव-नल एव द्वितीयस्तद्वितीयो-नलसमानो युवा तमेवोद्देशं-यस्मिन् प्रदेशे नलस्तमेव प्रदेशं आयातवान्आगतः । किम्भूतः ? प्रथमवयोविशेषेण-नवयौवनारम्भेण विभूषितं अलङ्कृतं अंगं यस्य सः, तरुण इत्यर्थः । तथा तुङ्गं उन्नतं तुरङ्ग-अश्वमारुढः, तथा गाढं-अत्यर्थं ग्रथितः-बद्धः परिकरः-कटिवेष्टनपटी येन सः, तथा करेण-शयेन कोदण्डं-धनुरास्फालयन्-टङ्कारयन् । आगत्य च बालाः-प्रत्यग्रा नीला:-नीलवर्णा ये नला:-नडाः शाद्वलाश्च-बालतृणानि तैः शालते-शोभते इत्येवंशीलस्तस्मिन्, तथाभूते शिलोच्चयस्य-पर्वतस्य य: स्थलीप्रदेशस्तस्मिन्, काञ्चित्काञ्चनकुम्भवत्-सौवर्णकलसवत् कान्तौ-मनोज्ञौ यौ कुचकुम्भौ तयोलुंठिता-परिवर्तमाना कुसुममालिका यस्याः सा तथाविधां गोपबालिकां अवलोकयनिदमवादीत् । 'युवराज, पश्यहे युवराज ! कुमार ! नृप ! पश्य-अवलोकय नद्यास्तीरे विदर्भायाः कापि गोपालबालिका । गाः समुच्चारयत्येषा क्षेत्रीकृत्य नलं वरम् ॥ २७ ॥ नद्या इति । विशिष्टो दर्भो यस्यां सा विदर्भा तस्या नद्या:-सरितस्तीरे एषा प्रत्यक्षा कापि-अनिर्दिष्टनाम्नी गोपालबालिका-गोपी वरं-श्रेष्ठं नलं-तृणविशेष क्षेत्रीकृत्यकेदारीकृत्य समुद्-सहर्षा सती गा:-धेनुः चारयति ॥ २७ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy