SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ पञ्चम उछासः ३४३ एकः कोऽपि मनोहरः पथि युवा दृष्टः स यस्मिन्सकृद् दृष्टे नष्टनिमेषया मम दृशा ल धं फलं जन्मनः ॥ २५ ॥ माद्यदिति पद्यम् । एकः कोऽपि मनोहर:-सुन्दराकृतिः पथि-मार्गे स युवा दृष्टः । यस्मिन्-यूनि सकृद्-एकवारं दृष्टे सति नष्टः कौतुकावलोकनाद् गतो निमेष:-अक्षिसं कोचो यस्याः सा तया विस्फारितया मम दृशा जन्मनः-उत्पत्तेः फलं लब्धं, तद्दर्शनेन सा कृतकृत्या बभूवेत्यर्थः । किम्भूतो युवा ? माद्यन्-दृप्यन् मांसलः-मेदुरस्तुङ्गः-उन्नतो यः पुङ्गवः पुमांश्चासौ गौश्च पुङ्गवः-वृषभ इत्यर्थस्तस्य यत्ककुत्-कूटं स्कन्धः-शिखरं तद्वदुन्नतं अंसस्थलं-स्कन्धौ यस्य स । पुङ्गवेति “गोरतद्धितलुकि" [पा. सू. ५/४/९२] इति गोन्तात् तत्पुरुषादच्समासान्तः । तथा कालिन्दीजलवत्-यमुनानीरवत् कान्ति:-कृष्णा छविर्येषां ईदृशाः कुन्तला:-केशा: यस्मिन्ननेवंविधं शिरो यस्य सः । तथा पूर्णेन्दुबिम्बवत् राकाशशाङ्कमण्डलवत् वर्तुलं आननं-मुखं यस्य सः ।। २५ ॥ तेनापि 'दाक्षिणात्योऽयम्' इति निश्चित्य साभिलाषामाभाषितोऽस्मि । मयापि कृतोचितालापेनोक्तम् । तेनाऽपि-यूना दाक्षिणात्योऽयमिति निश्चित्य-निर्णीय साभिलाषं-सस्पृहं यथा भवति तथा अस्मि-अहं आभाषित:-वादितः । मयाऽपि कृत उचितो "ब्राह्मणं कुशलं पृच्छेत् क्षत्रं बन्धुमनामयं । वैश्यं क्षेमं समागम्य शूद्रमाहूयमेव च ।" [ ] इति मनुवाक्यात् क्षत्रिययोग्य आलाप:-अनामयत्वप्रश्नरूपं आभाषणं येन स तथाविधेन उक्तम् । 'यथेयमाकृतिर्लोकलोचनानन्ददायिनी । तव भद्र तथा सत्यं सत्त्यागोऽसि नलोभवान्' ॥ २६ ॥ यथेति । हे भद्र !-कल्याणिन् ! तव लोकलोचनानां आनन्दं-आह्लादं ददाती'ति लोकलोचनानन्ददायिनी यथा-येन प्रकारेण इयं आकृतिः-आकारो दृश्यते सत्यं-अवितथं तथा तेन प्रकारेण सत्-शोभनस्त्यागः-दानं यस्य स सत्त्यागो वर्त्तसे तथा न त्वं लोभवान् असीति अव्ययं युष्मदर्थे । पक्षे, सत्त्यागस्त्वं नल:-नलाख्यो भवान्, इति पृथक्वाक्यद्वयं एकवाक्यतायां तु भवानसीति मध्यमपुरुषो दुर्लभः ॥ २६ ॥ एवमुक्तः सोऽपि मनाङमुग्धस्मितमेवोत्तरं कल्पितवान् । अथ 'प्रथमवयोविशेषविभूषिताङ्गस्तुणतुरंगमारूढो गाढग्रथित१. शूद्रमारोग्यमेव च अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy