SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः अथ - अनन्तरं नातिचिरेण - स्तोकेनैव कालेन तत्र गत्वा आगतस्ततस्तया दमयन्त्या रह: - एकान्ते समाहूय - आकार्य स सोमशर्मा ब्राह्मण:- सोमशर्मा - चन्द्रवच्छीतला या नर्मालापलीला-परिहासवचनविलासस्तया - हेतुभूतया बभाषे - उक्तः । ३४२ आहूतोदीच्यभूपेन तातादेशविधायिना । नालीकापि त्वया वार्ता विद्वन्नावेदिता मम ॥ २४ ॥ आहूति । आहूता:- आकारिता उदीच्च भूपा:- उत्तरदिग्भवनृपा येन स तथाविधेन, तथा तातादेशं पित्रादेशं विदधातीत्येवंशीलस्तातादेशविधायी तेन त्वया हे विद्वन् ! मम अलीकाऽपि-असत्यापि वात्तां न आवेदिता - कथिता, इति बाह्योऽर्थः । आन्तरस्तु, नलस्य नृपस्य इयं नालीवार्त्ता सा कापि त्वया न अभ्यधायि । सोऽपि 'एष कथयामि श्लेषोक्तिकुशले, श्रूयताम्' इत्यभिधाय विहसन्नाख्यातुमारब्धवान् । इतो निर्गत्य मया मण्डलेश्वरामन्त्रणक्रमेण परिभ्रमतां सताऽभ्रंकषानेककूटकोटिस्थपुटितकटकस्य निषधनास्नो महीध्रस्य दक्षिणारण्यस्थलीषु मृगयासक्तः । सोऽपि ब्राह्मणः एषो अहं कथयामि । हे श्लेषोक्तिकुशले ! द्व्यर्थवचनविलासदक्षे ! श्रूयतामिति अभिधाय विहसन् - किञ्चिद्वास्यं कुर्वन् आख्यातुं कथयितुमारब्धवान्-प्रायतत । इतः-स्थानान्निर्गत्य-निःसृत्य मया मण्डलेश्वराणां उदीच्यनृपाणां आमन्त्रणस्यआह्वानस्य यः क्रमः-परिपाटी पूर्वं तेषां आह्वानं पश्चात्तेषामित्येवंरूपा तेन, परिभ्रमतापर्यटता सता अभ्रङ्कषाणि - अभ्रंलिहानि अत्युच्चानि अनेकानि - बहूनि यानि कूटानि - शिखराणि तेषां याः कोटयः - अग्रभागास्ताभिः । यद्वा, कोटि : संख्याविशेषस्तया स्थपुटत्वंविषमोन्नतत्वं जातं यस्मिन्नसौ स्थपुटितः "तारकादित्वादितच्"[तदस्य सञ्जातं तारकादिभ्य इतच् पा. सू. ५ / २ / ३६ ] | एवंविधः कटक:- निनन्दो यस्यासौ, एवम्भूतस्य निषधनाम्नो महीध्रस्य-पर्वतस्य सम्बन्धिनीषु दक्षिणारण्यस्थलीषु मृगयायामासक्तः-लग्नः । माद्यन्मांसलतुङ्गपुंगवककुत्कूटोन्नतांसस्थलः, कालिन्दीजलकान्तिकुन्तलशिराः पूर्णेन्दुबिम्बाननः । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy