SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ३४१ पञ्चम उच्छ्वासः उदीच्यनरपतिनिमन्त्रणाय प्रस्थितं च-चलितं कञ्चित्प्रबुध:- पण्डितो वृद्ध:-जरत् यो ब्राह्मणस्तं प्रति दमयन्ती आप्तसखीमुखेन - यथार्थवाक् वयस्या द्वारा श्लिष्टार्थं - द्वयर्थं इदंवक्ष्यमाणमवादीत् । भूपालमन्त्रणे तात तथा संचर्यतां १ यथा । नलोप्यागमबुद्धिः स्यात्प्रार्थ्यसे किमतः परम् ' ॥ २२ ॥ भूपालेति वृत्तम् । तातेति सम्बोधने हे तात ! भूपालामन्त्रणे - नृपनिमंत्रणे तथा त्वया सञ्चर्यतां तथा प्रवर्त्यतां यथा आगमबुद्धिः - आगमावगतिः शास्त्रप्रतीतिर्लोप्या - निषेध्या न स्यात्, इति बाह्योर्थः । इष्टार्थस्तु, नलनामापि नृपो यथा आगमनबुद्धिर्भवेदिति । अतः परं इतोप्यधिकं किं प्रार्थ्यसे- किं याच्यसे न किमपीत्यर्थः ॥ २२ ॥ सोऽप्यवगत श्लोकार्थस्तथाविधमेव प्रत्युत्तरमदात् । सोऽपि ब्राह्मणो दक्षत्वात् अवगतः - ज्ञातः श्लोकस्य-पद्यस्य अर्थः- तात्पर्यं येन स तथाविधः सन् तथाविधं श्लिष्टमेवैकं प्रत्युत्तरं - प्रतिवचनमदात् । केनापि व्यवहारेण कयापि प्रौढलीलया । करिष्याम्यागमस्यार्थे रभसेन नलङ्घनम् ॥ २३ ॥ केनापीति वृत्तम् । अहं केनापि - अद्भुतेन व्यवहारेण व्यापारेण तथा कयापि प्रौढलीलया-प्रगल्भविलासेन आगमस्य - शास्त्रस्य अर्थे - तात्पर्ये न लङ्घनं - अतिक्रमणं करिष्यामीति बाह्योर्थः । इष्टार्थस्तु आगमनस्यार्थे - निमित्तं रभसेन - औत्सुक्येन घनं - निविडं नलाख्यं नृपं करिष्यामि, यथा आगमननिमित्तं अत्युत्सुको भविष्यति तथा विधास्यामि, आनेष्याम्येवेत्यर्थः ॥ २३ ॥ तदायुष्मति सुखमास्ताम् इत्यभिधाय गतवान् । अथ नातिचिरेणागतस्तस्या रहः समाहूय स ब्राह्मणः सोमशर्मा नर्मालापलीलया दमयन्त्या बभाषे । तत् इत्युपसंहारे तस्मात् हे आयुष्मति ! - दमयन्ति ! भवती सुखमास्तां - सुखं तिष्ठतु, इति-उक्तप्रकारेण अभिधाय उक्त्वा गतवान् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy