SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ३३८ दमयन्ती-कथा-चम्पू: तस्याः काप्यरविन्दसुन्दरदृशः सा नाम जज्ञे दशा, प्राणत्राणनिबन्धनं प्रियकथा यस्यामभूत्केवलम् ॥ २० ॥ [लास्यमिति ।] अरविन्दसुन्दरदृशः-कमलविशाललोचनायास्तस्या:-दमयन्त्याः सा कापि-अनिर्वाच्या दशा-अवस्था जज्ञे-जाता । नामेति सम्भाव्यते । यस्यां-दशायां नयनयोःनेत्रयोविषये लास्य-नृत्यं क्रियमाणं पांशुकण इव-रजोलव इव आचरति पांशुकणायते असुखकारित्वात् । तथा यस्यां वल्लकी-वीणा श्रुतेः-श्रोत्रस्य शल्यं-भल्लीव । तथा यस्यां कुचयोः-पयोधरयोः सचन्दनरसा:-चन्दनद्रवसहिताः कर्पूरवारिच्छटाः-घनसाररससेचनानि नाराचा:-शितबाणप्रहारतुल्याः । तथा यस्यां दशायां केवलं असहायं प्रियकथैव-नलवातैव प्राणानां-असूनां त्राणे-रक्षणे निबन्धनं-कारणमभूत्, प्रियकथैव तस्याः जीवितमधारयदित्यर्थः। "नाम प्राकाश्यकुत्सयोः । सम्भाव्याभ्युपगमयोरलीके विस्मये क्रुधि" इत्यनेकार्थः [२/४६-४७] ॥ २० ॥ एवमनयोरन्योन्यप्रेषितप्रच्छन्नदूतोक्तिवधिंतानुरागयोः चलन्त्य ङ्गानि न मनोरथाः, परिवर्त्तते चक्षुर्न हृदयम्, कशतामेत्यङ्यष्टिर्नोत्कण्ठा, मन्दतां यात्युत्साहो नाभिलाषः, स्फारीभवति निःसहता न निद्रा, वर्धते चिन्ता न रतिः, शुष्यत्यधरपल्लवो नाग्रहरसः । एवं अमुना प्रकारेण अन्योन्यं-परस्परं प्रेषिताः-मुक्ताः प्रच्छन्नाः-गुप्ता ये दूतास्तेषां उक्तिभिःवचनैर्विवर्धितः-अधिकीभूतोऽनुराग:-प्रेमानुबन्धो ययोस्तौ, तथाविधयोरनयो:-दमयन्तीनलयोः अङ्गानि-शरीरावयवाश्चलन्ति, न मनोरथाश्चलन्ति । तथा चक्षुः परिवर्तते-तां दिशं प्रति अभिमुखीभूय निवर्तते, न हृदयं-चेतः परिवर्तते । तथा अङ्गयष्टिः-तनुलता कृशतां-तानवं एति-प्राप्नोति', नोत्कण्ठा-वाञ्छा कृशतामेति, उत्कण्ठा-वाञ्छा दिने दिने अधिका जायते इत्यर्थः । तथा उत्साह:प्रगल्भता मन्दतां-अल्पतां याति-आप्नोति, दिने दिने उत्साहः स्तोकः स्तोकः सञ्जायते, नाभिलाषः-वाञ्छाऽल्पीभवति । तथा नि:सहता-विरहस्य असह्यता स्फारीभवति-विशाला जायते, दिने दिने विरहः सोढुमशक्यो जायते, न निद्रा-प्रमीला स्फारी भवति, विरहान्न निद्रात इत्यर्थः । तथा चिन्ता-तत्स्मरणं वर्द्धते न रतिः, कस्मिन्नपि वस्तुनि रागो वर्द्धते । तथा अधरवल्लवो विरहाच्छुष्यति, न आग्रहरस:- आसक्तिरागः शुष्यति, दिने दिने तयोरन्योन्यमासक्तिरसो वर्द्धते इत्यर्थः । “आग्रहोऽनुग्रहे ग्रहे आसङ्गाक्रमणयोश्चापि'' इत्यनेकार्थः [३/८०४] । किं बहुना किम्बहुना-किम्बहूक्तेन१. आप्नोति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy