________________
पञ्चम उछास:
३३९
कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीनां दलैराकीर्णेऽपि विवर्त्तमानवपुषोः त्रस्तस्त्रजि स्त्रस्तरे । मन्दोन्मेषदृशोः किमन्यदभवत्सा काप्यवस्था तयो
र्यस्यां चन्दनचन्द्रचम्पकदल३ श्रेण्यादि वह्नीयते ॥ २१ ॥ कर्पूरेति । अन्यत्-अपरं किम् ? तयोः-नलदमयन्त्योः सा कापि-अनिर्वाच्या अवस्था अभवत् । यस्यां-अवस्थायां चन्दनं च चन्द्रश्च चम्पकदलानि च-चम्पकपत्राणि तेषां या श्रेणिः-पंक्तिः सा आदिर्यस्य कर्पूरादेस्तव' चन्दनचन्द्रचम्पकदल श्रेणिकर्पूरप्रभृति वह्निरिवाचरतीतिरे वह्नीयते, तानि शीतान्यपि तयोः दुःखायन्त इत्यर्थः । किम्भूतयोस्तयोः? कर्पूराम्बुनिषेकं-घनसारद्रवसेचनं भजति यः स त तस्मिन्, कर्पूरद्रवेण सिक्त इत्यर्थः । तथा सरसैः-आर्दैः अम्भोजिनीनां-पद्मिनीनां दलैः-पत्रैराकीर्णेऽपि-व्याप्तेपि । तथा स्रस्ताः-विक्षिप्ताः स्रजः-माला यस्मिन् स तथा तस्मिन्, एवंविधेपि स्रस्तरे-संस्तरे स्वास्थ्याभावात् विवर्तमानं-वामपादिक्षिणपार्श्वे दक्षिणपार्थ्याच्च वामपाद्ये परावर्तनं कुर्वाणं वपुर्ययोस्तौ तयोविवर्तमानवपुषः। पुनः किम्भूतस्योस्तयोः ? मन्दोन्मेषाअल्पोन्मीलना दृक् ययोस्तयोर्मन्दोन्मेषदृशोः, दृशौ मनागुन्मीलयतः ॥ २१ ।।
__ आसीच्च तयोः कृतान्योन्यगुणप्रश्नालापजपयोः पुनरुक्तावर्तितनामधेयस्वाध्याययोः संकल्पसमागमाबद्धध्यानयोः स्मरानले स्वहृदयं जुह्वतोस्तप्यमानयोरङ्गीकृतमौनव्रतयोरपि वियोग एव, न' योगः ।
आसीदिति । च-पुनः कृतोऽन्योन्यं-परस्परं यो गुणानां प्रश्नालाप:-प्रश्नाभाषणं स एव जपः-जाप्यं यकाभ्यां तयोः । तथा पुनरुक्तावर्तितं-वचनमुक्तं "भावे क्तः" [ ], पुनः पुनः कथनेन परावर्तितं नामधेयं-नामैव स्वाध्यायो याभ्यां तयोः, नलो दमयन्त्या नाम पुनः पुनः कथयति दमयन्ती च नलस्य, इत्येवंविध एव यः स्वाध्यायस्तं कुर्वतोः । तथा सङ्कल्पे-चित्तकर्मणि यः समागमस्तत्र आबद्धं-निबद्धं ध्यानं यकाभ्यां तयोः । तथा स्मरानले-कामाग्नौ स्वहृदयं -स्वचेतो जुह्वतो:-होमवतोः, तथा तप्यमानयो:सन्तापमनुभवतोः। तथा कृतं मौनव्रतं यकाभ्यां तयो मौ निनोरपि तयो:दमयन्तीनलयोवियोग:-विरह एव आसीन्न योगः । योगः सम्बन्धोऽध्यात्मविषयश्च, अन्यस्य जपं स्वाध्यायं ध्यानं होमं तपो मौनव्रतं च कुर्वतो योगलाभः स्यात्, अनयोस्तु वियोग एव बभूव, न योग । इति अपिशब्देन व्यज्यते । तप्यमानेति सन्तापपक्षे "कर्म कर्तरि यक्" [ ] आत्मनेपदादि, अन्यत्र तु कर्तरि तपः कर्मविषयत्वात् ।
१. तत् अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org