SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ३२८ दमयन्ती-कथा-चम्पू: आनन्दी-आनन्दजनकः सुन्दरो गुणः-तन्तुर्यस्यां सा आनन्दिसुन्दरगुणाः, तथा अद्भुतंआश्चर्यकारिणं आमलकोपमानानां मुक्ताफलानां-मौक्तिकानां प्रचयं-समवायं उद्वहन्तीधारयन्ती, तथा नयनयोरुत्सवकारिणी-हर्षविधात्री कान्तिः-छविर्यस्याः सा, तथा चेतोहरामनोहरा । किम्भूता सा दमयन्ती ? आनन्दितः सुन्दरा गुणाः-शौर्यौदार्योदयो यस्याः सा तथाविधा, तथा मलात्-पापात् मालिन्याद्वा कोपात्-क्रोधान्मानात्-गर्वात् सादृश्याद् वा मुक्ता-भ्रष्टा, तथा अद्भुतं-चित्रं फलानां प्रचयं उद्वहन्ती परिणेतुरिति शेषः, तथा नेत्रयोरुत्सवकारिणी-हर्षविधायिनी कान्ति:-देहदीप्तिर्यस्याः सा, तथा चेतसि हरो यस्याः सा चेतोहरा ॥ १२ ॥ इति चिन्तयन्द्विगुणामेकगुणीकृत्य पुनः सस्पृहमैक्षत । हंसस्तु विहस्य परिहासमकरोत् । इति-अमुना प्रकारेण चिन्तयन् सन् स नृपः द्विगुणां तां मुक्तालतां एकगुणीकृत्यएकसरीकृत्य पुनः सस्पृहं-साभिलाषं ऐक्षत-व्यलोकयत् । हंसस्तु विहस्य परिहासं-नर्मलीलामकरोत् । तया दत्ता मयानीता स्वयमाह्लादिनी तव । इत्यनेकगुणाप्येषा कथमेकगुणीकृता ॥१३॥ तयेति । वृत्तम् । हे राजन् ! तया-दमयन्त्या दत्ता, मया-हंसेन आनीता, तव स्वयमाणादिनी-प्रीतिजनयित्री इत्येवं अनेके चारुतादयो गुणा यस्याः सा अनेकगुणाः, एवंविधाप्येषा-हारलता कथं एकगुणीकृता-एकचारुत्वादिगुणसंयुता कृता, पक्षे एकसरीकृता ॥ १३ ॥ राजापि परिहासेनान्तःसूत्रं दर्शयन् 'पक्षिपुंगव, किं न पश्यस्यैकगुणैवेयम् । राजापि परिहासेन-लीलापूर्वकहासेन अन्तःसूत्रं-मध्यगतं गुणं दर्शयन् हे पक्षिपुङ्गव !-पक्षिश्रेष्ठ ! किं न पश्यसि एकगुणैवेयम् । अथवाअथवा-इति पक्षान्तरे, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy