SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ पञ्चम उच्छ्वासः ३२७ करोतु, कण्ठकन्दले निधीयतामित्यर्थः । केव ? तस्या: - दमयन्त्या भुजलतेव यथा तस्या भुजलता तव कण्ठालिङ्गनं करिष्यति तथेयमपि करोतु । उभयी अपि कीदृशी ? उन्मदयति-हर्षयतीत्येवंशीला उन्मादिनी, तथा मदनकार्मुकमण्डलस्य-कुण्डलीकृतस्मरधनुषो ज्येव-प्रत्यञ्चेव, उभयीभ्यामपि जगज्जयात् । तथा सौभाग्यस्य सुभगत्वस्य भाग्यस्य च - भागधेयस्य परं-उत्कृष्टं यद्वैभवं - प्रभुत्वं तेन वैजयन्तीव - पताकेव या सा, अत: परं सौभाग्यं भाग्यं च कस्या अपि नास्तीत्यर्थः । तथा कुलस्य - तदन्वयस्य धनं स्वं कुलधनं तत्कुलसर्वस्वमित्यर्थः । इदं मुक्तावलीमेवापेक्ष्य विशेषणम् ॥ १० ॥ अपि चप्रेमप्रपञ्चनवनाटकसूत्रधारी, मूर्त्ता मनोभवनृपस्य नियन्त्रणाज्ञा । तस्या: स्वयंवरपरिग्रहदूतिरेषा हारावली हृदि पदं भवतः करोतु ॥ ११ ॥ , अपि च-पुन: प्रेमेति वृत्तम् । हे नृप ! एषा हारावली भवतो हृदि - हृदये पदं - अवस्थानं करोतु, त्वद्ह्रदयमलङ्करोतु । किम्भूता हारलता ? प्रेमप्रपञ्च एव - प्रीतिविस्तार एव नवं नाटकंनृत्यं तस्य सूत्रधारीव-रङ्गाचार्येव यथा सूत्रधारी नृत्यं प्रवर्तयति तथेयं प्रेमप्रपञ्चं प्रवर्तयतीति । तथा मनोभवनृपस्य - कामभूपस्य मूर्त्ता - सशरीरा नियन्त्रणाज्ञा- - युवजनमनोबन्धनरूप आदेशः । तथा तस्याः - दमयन्त्याः स्वयम्वरे यः परिग्रहः-स्वीकारस्तत्र दूतिकेव या सा । यथा दूती प्रियस्य प्रियाया: स्वीकारं कारयति, तथेयमपि दमयन्तीस्वीकारं कारयिष्यतीति ॥ ११ ॥ राजा तु तामादाय निरूप्य च चिरं चिन्तयांचकार । राजा तु तां-हारलतामादाय निरूप्य च - अवलोक्य च चिरं चिन्तयाञ्चकारविचारयामास । आनन्दिसुन्दरगुणामलकोपमान मुक्ताफलप्रचयमद्भुतमुद्वहन्ती । एषा च सा च नयनोत्सवकारिकान्तिश्चेतोहरा हृदि पदं न करोति कस्य ॥१२॥ आनन्दीति वृत्तम् । एषा चेयं - हारलता सा च दमयन्ती कस्य हृदि - वक्षसि चेतसि च पदं - अवस्थानं न करोति, अपितु सर्वस्यापि करोत्येवेत्यर्थः । किम्भूता हारलता ? Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy