________________
३२६
दमयन्ती-कथा-चम्पू: स्पृहणीयः-अभिलषणीयः सङ्गम:-सम्बन्धो यस्य स तस्य सम्बोधनं क्रियते हे स्पृहणीयसङ्गम !-हे हंस ! त्वयि गते सति इदं अस्माकं मनः प्रस्तुतः-प्रकृतः परःउत्कृष्टो मोहः-मूर्छा यस्मिंस्तत्तथाविधं प्राप्तचैतन्यराहित्यं आसीत् , मूर्छितं जातमित्यर्थः । किमिव ! तर्कशास्त्रमिव । किम्भूतं तर्कशास्त्रम् ? प्रस्तुतः परम ऊहः-वितर्को यत्र तत्तथाविधं । तथा त्वयि गते सति अस्मन्मनः भूतनिष्ठं भूता-सञ्जाता निष्ठा-क्लेशो यत्र तत्तथाविधं आसीत् । किमिव ? व्याकरणमिव । किम्भूतं तत् ? भूते-अतीते काले निष्ठा-संज्ञः प्रत्ययो यत्र तत् । “निष्ठोत्कर्षव्यवस्थयोः, क्लेशे निःपतौ नाशेंते निर्वाहे यातने व्रते" इत्यनेकार्थः [२/१०८] ।
तत्-तस्माद्वेतोः हे हंस ! एहि एहि-आगच्छ आगच्छ इत्यभिधाय-उक्त्वा स्वयं करकमलतलेन उत्क्षिप्य-उच्चैर्गृहीत्वा सस्नेह-सप्रेमं परामृशत्-पस्पर्श ।।
सोऽपि 'एष महान्प्रसादो यदेवमनुकम्पतेऽस्मान्देवः' इत्यभिधाय गमनादारभ्य दमयन्तीदर्शनालापव्यतिकरमशेष हारलतार्पणपर्यन्तमाचचक्षे ।
आख्याय च चरणेनैकेन ग्रीवाग्रादाकृष्य तां तथास्थितामेव मुक्तावलीमिदमवादीत् ।
___ सोऽपि-हंस, इत्यभिधाय गमनादारम्य-यद्दिने इतो गमनं विहितं तद्गमनदिनादारभ्य दमयन्त्या दर्शनं च-अवलोकनं आलापश्च-सम्भाषणं तयोर्व्यतिकर:-वृत्तान्तस्तं अशेषंसमस्तं हारलताया यत् अर्पणं-दानं तत्पर्यन्तं-तदवसानं आचचक्षे-आख्यातवान् । इतीति किम् ? हे राजन् ! एष महान्प्रसाद:-अनुग्रह: यत् एवं करस्पर्शनादिना देवः-भवान् अस्मान् अनुकम्पते-दयां कुरुते ।
आख्याय च-उक्त्वा च एकेन चरणेन च तां मुक्तावली-हारलतां, तथा स्थितामेवद्विगुणीकृतामेव ग्रीवाग्राद् आकृष्य-गृहीत्वा इदमवादीत् ।
उन्मादिनी मदनकार्मुकमण्डलज्या, सौभाग्यभाग्यपरवैभववैजयन्ती । मुक्तावली कुलधनं नरनाथ सैषा,
कण्ठग्रहं तव करोतु भुजेव तस्याः ॥ १० ॥ उन्मादिनीति वृत्तम् । हे नरनाथ ! सा' - एषा मुक्तावली तव कण्ठग्रह-कण्ठस्वीकार
१. सा नास्ति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org