________________
पञ्चम उछासः
३२५
अपरागोल्लासश्च स्फुटकुमुदपरागोल्लासः स चासौ सम्पद्वियुक्तश्च । तथा बहुः-बहुल: शोक:-शुक् यस्य स तं । कीदृशं ग्रीष्मे शरः ? समं हरितं तीरं यस्य तत् समहरिततीरं, न समहरिततीरं असमहरिततीरं-विषमं शुष्कं च तीरं यस्येत्यर्थः । तथा विस्रः-आमगन्धिको जम्बाल:-कर्दम एव शेषो यत्र तत् । तथा विकसितकुमुदरेणूल्लाससमृद्धिरहितं । तथा नास्ति कं-जलं अत्रेति अकं, बहुश इति क्रियाविशेषणम् ॥ ९ ॥
राजापि 'श्लेषोक्तिनिधे, तथा गृहीत्वास्मन्मनो गतवानसि, यथा सुखसंपत्तिशून्याः१ संतापारभ्भिणो रणरणकाङ्कुरप्ररोहकाः कथमप्यस्माकमेतेऽतिक्रान्ता दिवसाः ।
तत्कथय । का नाम साभिनन्दनीया३ दिक्, यस्यां विहारमकरो:४ । ते५ सफलचक्षुषो जनाः, यैश्चिरमालोकितोऽसि । ते ६लब्धसुभाषितामृतरसास्वादाः यैः संभाषितोऽसि । ते प्राप्तप्राणितफलाः, यैः सह गोष्ठीमनुष्ठितवानसि ।
स्पृहणीयसंगम, गते त्वयि तर्कशास्त्रमिव प्रस्तुतपरमोहम्, व्याकरणमिव भूतनिष्ठमिदमस्माकमासीन्मनः ।
तदेह्येहि इत्यभिधाय स्वयं करकमलतलेनोत्क्षिप्य सस्नेहं परा-मृशत्१° ।
राजाप्युवाच-हे श्लेपोक्तिनिधे ! तथा अस्मन्मनो गृहीत्वा गतवानसि । यथाऽस्माकं कथमपि महता कष्टेन एते सुखसम्पत्त्या-सुखसमृद्ध्या शून्याः-रहिताः तथा सन्तापं-दुःखं आरभन्ते-जनयन्तीत्येवंशीलाः सन्तापारम्भिणः, तथा रणरणकमेव-दमयन्ती प्रत्यौत्सुक्यमेव अङ्करास्तेषां प्ररोहका:-जनकाः दिवसा अतिक्रान्ताः ।
तत्-तस्मात् कथय । का नाम साभिनन्दनीया-स्तवनीया दिक् यस्यां दिशि त्वं विहारमकरोः । हे हंस ! ते सफलचक्षुष:-कृतार्थनेत्रा जनाः । यैस्त्वं चिरं आलोकितोसिवीक्षितोसि । तथा ते लब्धः सुभाषितान्येव अमृतरसस्तस्य आस्वादो यैस्ते लब्धसुभाषितामृतरसास्वादाः जनाः यैः सम्भाषितोसि-वादितोसि । तथा ते प्राप्तं प्राणितस्य-जीवितस्य फलं यैस्ते प्राप्तप्राणितफलाः, यैः सह गोष्ठी-संलापं अनुष्ठितवान्-कृतवानसि । "गोष्ठीसंलापे परिषद्यपि" इत्यनेकार्थः [२/१०७] ।
-१. दमयन्ती अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org