________________
३२४
दमयन्ती-कथा-चम्पू:
किं चान्यत्
असमहरिततीरं विस्रजम्बालशेषं, स्फुटकुमुदपरागोल्लाससंपद्वियुक्तम् । वयमिह बहुशोकं दृष्टवन्तो वनान्ते,
त्वदरियुवतिलोकं ग्रीष्ममासे सरश्च ॥ ९ ॥ सोऽपि-हंस इत्यभिधाय नलं उपश्लोकयाञ्चकार-श्लोकाभ्यां उपस्तौति स्म । इतीति किम् ? हे देव ! तव दर्शनमेव अमृतं अनुभवतः-आस्वादयतः अवलोकयत इत्यर्थः। मम स्वागतं-शोभनमागतं-आगमनम् ।
हे देव !
प्रसृतेति । त्वयि कृतरुषि-रुष्टे सति आस्तां तावद् यद् भीताः-त्रस्ताः शत्रवस्तडागमेवं नाद्रियन्ते-नादरं कुर्वन्ति यावन्निजं कलत्रमपि-रमणीमपि नाद्रियन्ते । किम्भूतं तडागम् ? प्रसृतः-प्रवृत्तः कमलानां-अब्जानां गन्धो यत्र तत्, तथा नीरेण संसक्त:संयुक्तः कण्ठः-पालिप्रान्तो यस्य तत्, तथा धृता कुवलयानां-नीलोत्पलानां माला-पंक्तिर्येन तत्, तथा जाता-उत्पन्ना भङ्गाः-तरङ्गाः ऊर्मयश्च-कल्लोला यत्र तत् । एतच्चतुष्टयं तडागादरहेतुः । किम्भूतं कलत्रम् ? प्रसृतः के-मूनि मलगन्धो यस्य, तत्स्नानाभावात् । तथा निर्गतो रसो वक्त्रामृतकलाशृङ्गारादिर्वा यस्मात्तत्, तथा [सं]सक्त:-अन्तर्लग्नः कण्ठो यस्य तत् । तथा धृता कुत्सितवलयानां सुवर्णाद्यभानात् काचादिवलयानां माला-पंक्तिर्येन तत् । तथा जातभङ्गा-भग्ना ऊर्मिका-अङ्गुलीयकं यस्य तत् ॥ ८ ॥
किञ्चान्यत्-पुनरपरं किम् ?
असमेति । हे देव ! वयं इह वनान्ते-वनप्रान्ते एवंविधं त्वदरियुवतिलोकंत्वदहितस्त्रीलोकं ग्रीष्ममासे एवंविधं सरश्च दृष्टवन्तः-अवलोकितवन्तः । किम्भूतं त्वदहितस्त्रीलोकम् ? हरितते:-सिंहपद्धतेः सकाशात् ईर:-क्षेपस्त्रासो हरिततीरः, असम:विषमो हरिततीरो यस्य स तम् । अथवा मा-लक्ष्मीस्तया सह वर्तत इति समं न समं असमं-असश्रीकं, तथा हरितती:-वानस्पंक्ती ईरयति-क्षिपयतीति हरिततीरः, पश्चात् कर्मधारयस्तम् । तथा विस्रजं-विगतमालं, तथा बाला एव शेषाः-अवशिष्टा यस्य स तं, हतभादित्वात् । तथा स्फुटं कु-कुत्सा यस्य स तं स्फुटकुं, तथा उद्गतोऽपरागस्यरागाभावस्य उल्लासो यस्य तथाविधश्चासौ सम्पद्वियुक्तश्च । अथवा स्फुटा कुत्सिता उदरभरणादिमात्रजां उद्यस्य स स्फुटकुमुद्, तथा अपगतो रागोल्लासो यस्य स्फुटकुमुच्चासौ
१. एवंविधं अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org