SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ पञ्चम उवासः ३२१ अपि च - अभिलषति नालमशनं स्वपिति नवाम्भोजपत्रशयनेऽपि । नीरागमना नृपते तव रिपुवनितायते हंसी ॥ ७ ॥ __ अथ च तेषां हंसाना मध्ये अन्यतमां क्रीडातडागस्य यानि पङ्कजानि-पद्मानि तेषां पञ्जरे-मध्ये राजहंसीमवलोक्य सरोरक्षिका-सरसीरक्षित्री त्वरया-वेगेन समागत्य हंसदर्शनोत्सुकं-मरालावलोकनोत्कण्ठितं राजानं व्यजिज्ञपत्-विज्ञप्तवती । हे देव ! देवः-भवान् राजा हंसवार्ता अनुदिवसं-प्रतिदिनं पृच्छति तदद्य काचित् हंसी। कुरुत इति वृत्तम् । हे राजन् !-नृप ! उद्यानसरः-वनतडागं गता-प्राप्ता हंसी नालस्य-विसकाण्डस्य कवलनं-ग्रासं कुरुते, तथा गर्भजम्बालं-गर्भे तन्मध्ये यो जम्बालःकर्दमस्तं च दूरं-अनिकटे विक्षिपति-परिहरति । केव ? त्वदरिवधूरिव-त्वदीयवैरिस्त्रीव । सा च किम्भूता ? उद्यानेन पलायनेन सरोगता सामयता यस्याः सा तथाविधा । तथा अलकानां-केशानां वलनं-सन्मार्जनं न कुरुते । तथा गर्भे जातं बालं-डिम्भं दूर विक्षिपति, भीत्या हि गर्भः पतति ॥ ६ ॥ अपि च-पुनः अभीति ? हे नृपते !-राजन् ! हंसी तव रिपुवनितेव आचरति रिपुवनितायते । कथम् ? या हंसी नालं-कमलकाण्डं अशनं-आहारं अभिलषति-वाञ्छति, तथा नवाम्भोजशयने-नूतनाब्जपत्रशय्यायां स्वपित्यपि, तथा नीरे-जले आगमनं यस्याः सा नीरागमना । रिपुवनिता तु नीरागं-वैराग्योपेतं मनो यस्याः, अतएव अलं-अत्यर्थं, अशनं नाभिलषति नापि कमलदलतल्प शेते । वा-अथवार्थः ॥ ७ ॥ राजापि तस्याः श्लिष्टार्थमिदमार्यायुगलमवधार्य सावसरं प्रशस्तस्तोकं स्मितसुधाधवलिताधरपल्लवः 'लवङ्गिके, यथा कथयसि तथा तेऽप्यागता हंसाः कथमन्यथा तस्याः खल्वेकाकिन्याः संभवः' इति तद्वार्तया यावदास्ते । तावन्नीलोत्पलदलदीर्घलोचना चन्द्रमुखी बन्धूकुसुमकान्तदन्तच्छदा नीलांशकपटी परिदधाना पक्वकलममञ्जरीगौराङ्गी प्रकाशहासा हंसैरनुगम्यमाना मूर्तिमती शरदिव वनपालिका प्रविश्य 'देव, सोऽयं कथमप्या१. अथवार्थे अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy